________________
षष्ठः पल्लवः]
[२५५ तन्मठात् पुरतोऽप्यस्ति, रम्यं हर्म्य महोन्नतम् । राजपुत्री वसेत् तत्र, पुरं मुक्त्वा नराधा ॥२५५।। मठे तपस्विनीपार्श्वे, सा करोति गमागमौ ।
तत्र शिक्षति शास्त्राणि, दक्षा नवनवानि च ॥२५६।। अन्यच्च- शास्त्राभ्यासाद्विविधविदुषां चित्तमालादयन्ती,
गीतेर्गानादभिमतसखीवर्गमुल्लासयन्ती । पद्मापुत्रं सुरभिकुसुमैनित्यमभ्यर्चयन्ती,
चेतःशुद्धयेष्टदमनुपमं मन्त्रमाराधयन्ती ॥२५७॥ गेहान्तःस्था परिचितसखीलोकमालापयन्ती, नित्यं हर्षान्मधुरवचनां सारिकां क्रीडयन्ती । देशायातानभिनवनरान्नागरान् द्वेषयन्ती, कञ्चित्कालं स्म नयति मनोऽभीष्टमासादयन्ती ॥२५८॥ युग्मम् ॥ इत्यादिसकलां वार्ता, कथयित्वा गतो नरः । ततः सुमतिना सक्, स्वरूपं ज्ञापितो नृपः ॥२५९॥ तद्दिने सुमती रात्रौ, ददर्श स्वप्नमीदृशम् । हेममालायुतो राजोत्तरस्या दिश आगतः ॥२६०।। इत्थं स्वप्नं प्रगे मन्त्री, भूपस्याग्रे न्यवेदयत् । ततो विशेषतो हर्ष, दधाति स्म धराधिपः ॥२६१॥ ततः सुमतिसंयुक्तो, राजा श्रीपुरुषोत्तमः । प्रस्तावोचितसामान्यरूपवेषक्रियाधरः ॥२६२॥ उत्तरापथदेशं प्रत्यचालीदुत्सुको भृशम् ।
प्रियङ्करा पुरी तेन, क्रमात् प्राप्ता मनोहरा ॥२६३॥ यत:- किं लङ्का किमु देवनायकपुरी कान्ती च किं द्वारिका,
किं वा नागकुमारिकाकृतमिदं क्रीडाकृते स्वेच्छया । किं देवेन्द्रविनिम्मितं किमथवा विद्याधरैः कौतुकात् , सृष्टं सत्पुरमत्र यत्रिजगतामाश्चर्यकृद् दृश्यते ॥२६४॥
25