________________
२४]
[धर्मकल्पद्रुमः इत्थं प्रकुर्वतस्तस्य, गतः कालः कियानपि । राज्यकार्याणि सर्वाणि, करोति स्म नराधिपः ॥२४३।। अथान्यदा नरः कोऽप्यागतो देशान्तरादिह । भोजयित्वा च तत्तस्य, मन्त्रिणा दर्शितं पुरम् ॥२४४।। तद् दृष्ट्वा स रुरोदोच्चैः, मन्त्रिणा भणितं ततः । कथं रोदिषि तद् ब्रूहि, कारणं कौतुकं मम ॥२४५।। स प्रोचे मे जन्मभूमिरीदृशी नगरी परा । विद्यते तत्र विद्येते, मन्मातापितरौ किल ॥२४६॥ अस्मिन् दृष्टे स्मृता साऽद्य, स्मृतौ च पितरावपि । तन्मेऽभून्मानसे दुःखं, विरहात् तेन रोदिमि ॥२४७।। मन्त्र्यूचे वद भोः पान्थ !, किंनाम्नी क्वास्ति सा पुरी । को भूपस्तत्र वार्ता चाऽपूर्वा काचित् प्रवर्त्तते ? ॥२४८।। पथिकोऽवादीन्मन्त्रीश ! सुमतेऽस्त्युत्तरापथे । प्रियङ्करा पुरी तत्र, राजा श्रीसत्यशेखरः ॥२४९।। सत्यश्रीरिति तस्यास्ति, पट्टदेवीव देवता । शीलसन्नद्धसर्वाङ्गा, भाग्यसौभाग्यशोभिता ॥२५०।। तत्कुक्षिसम्भवा पुत्री, कमलश्रीविचक्षणा ।
सीमन्तिनीजने सीमा, सा पुनर्नरमत्सरा ॥२५१॥ यतः- शशिनि खलु कलङ्कः कण्टकाः पद्मनाले,
जलधिजलमपेयं पण्डिते निर्धनत्वम् । दयितजनवियोगो दुर्भगत्वं सुरूपे, धनवति कृपणत्वं रत्नदोषी कृतान्तः ॥२५२॥ तत्पुरः पूर्वदिग्भागेऽस्त्येकं देवकुलं वरम् । तस्यासन्ने मठे चास्ति, सत्परिव्राजिकाद्वयम् ॥२५३।। नानाविधमहाविद्यालब्धिसिद्धिविराजिता । मन्त्रतन्त्रादिकपटं, सर्वं जानाति चादिमा ॥२५४।।
20
25