________________
षष्ठः पल्लवः]
[२५३ हसित्वा ते जनाः सर्वे, गता निजनिजं गृहम् । ततः स्वप्नवशात् तस्य, जने जाता विडम्बना ॥२३२॥ अतः स्वामिन् ! समुत्थाय, राजकार्याणि साधय । स्वप्नचिन्तां परित्यज्य, त्वं सुखीभव सर्वथा ॥२३३।। ततो धराधवः प्रोचे, हे मन्त्रिन् ! मम मानसम् ।
अत्यन्तं बाधते कामो, दुर्जयो यो हि दैत्यवत् ॥२३४।। यतः- तावन्नीतिविनीतत्वं, मतिः शीलं कुलीनता ।
विवेकौचित्यपाण्डित्यं, लज्जा वा तत्त्वनिर्णयः ॥२३५॥ तपःशमदयादानं, संसाराद्भयमित्यपि । सत्यं तत्त्वं च सन्तोषो, यावन्नो पीडयेत् स्मरः ॥२३६॥ युग्मम् ॥ 10 कैवर्ती चकमे पराशरमुनिर्गाधिः श्वपाकी विधिः, स्वां पुत्रीं गुरुकामिनी द्विजपतिः कुन्तीञ्च कन्यां रविः । आभीरीः पुरुषोत्तमः सुरपतिस्तां तापसी यद्भयात् ,
तं कन्दर्पोमदर्पमारचयत ब्रह्मास्त्रविस्फूर्जितैः ॥२३७॥ यतः- पितुर्वा मातुर्वा स्मरति न कुलं कामविकला,
महेला न स्नेहं न गणयति गेहं वरपितुः । न पात्रं नापात्रं परिहरति न स्वं च न परम् , कथं वा वैकल्ये विलसति सुचेष्टा विलसति ? ॥२३८॥ विषस्य विषयाणां च, दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति, विषयाः स्मरणादपि ॥२३९॥ त्वं मन्त्रिन् ! सुमतिर्नाम्ना, मतिं काञ्चिद्विचारय । कुरूपायं च कञ्चित्तं, कन्याप्राप्तिर्यथा भवेत् ॥२४०॥ स्वप्नदृष्टसमं तत्र, मन्त्रिणा रचितं पुरम् । तत्समीपे दानशाला, कारिता भोज्यहेतवे ॥२४१॥ भोजयित्वाऽत्र पृच्छ्यन्ते, नरा वैदेशिका इति । ईदृशं नगरं क्वापि, वीक्षितं वा श्रुतं न वा ॥२४२।।
20