________________
२२]
[धर्मकल्पद्रुमः मन्त्र्यूचे देव ! का चिन्ता, स्वप्नदृष्टे हि वस्तुनि ।
रम्यस्वप्नात् शुभं भावि, स्वप्नः प्रोक्तो ह्यनेकधा ॥२१९।। उक्तञ्च- समधातोः प्रशान्तस्य, धार्मिकस्यातिनीरुजः ।
स्यातां पुंसो जिताक्षस्य, स्वप्नौ सत्यौ शुभाशुभौ ॥२२०॥ अनुभूतः श्रुतो दृष्टः, प्रकृतेश्च विकारजः । स्वभावतः समुद्भूतश्चिन्तासन्ततिसम्भवः ॥२२१॥ देवताद्युपदेशोत्थो, धर्मकर्मप्रभावजः । पापोद्रेकसमुत्थश्च, स्वप्नः स्यान्नवधा नृणाम् ॥२२२॥ प्रकारैरादिमैः षड्भिरशुभश्च शुभोऽपि च । दृष्टो निरर्थकः स्वप्नः, सत्यस्तु त्रिभिरुत्तरैः ॥२२३॥ रात्रेश्चतुर्षु यामेषु , दृष्टः स्वप्नः फलप्रदः । मासैादशभिः षड्भिस्त्रिभिरेकेन च क्रमात् ॥२२४॥ निशान्ते घटिकायुग्मे दशाहात् फलति ध्रुवम् । दृष्टः सूर्योदये स्वप्नः, सद्यः फलति निश्चितम् ॥२२५॥ मल( माला )स्वप्नोऽह्नि दृष्टश्च तथाऽऽधिव्याधिपीडितः । मलमूत्रादिपीडोत्थः, स्वप्नः सर्वो निरर्थकः ॥२२६॥ प्रधानः पुनरित्यूचे, किं नेत्याभानकः श्रुतः । यद् वृथार्थे जनाः प्राहुः, स्वप्नपृष्ठे प्रधावनम् ॥२२७।। स्वप्नाऽर्थेऽत्र पुना राजन्नेकोदाहरणं शृणु । कस्मिन् ग्रामे प्रदेशेऽभून्मठे कार्पटिकः पुरा ॥२२८।। एकदा तेन निद्रायां, मठी पक्वान्नसंभृता । दृष्टा स्वप्ने जजागार, प्रभातेऽचिन्तयच्च सः ॥२२९।। अहो ममास्ति पक्वान्नं, कथं ग्रामो न भोज्येत । ग्राममध्ये ततो गत्वा, जनाः सर्वे निमन्त्रिताः ॥२३०।। भोक्तुं तत्रागता लोकाः, सुप्तः कार्पटिकस्तदा । जनैः पृष्टं कथं सुप्तः, स्वप्नवार्ता प्ररूपिता ॥२३१।।
25