________________
षष्ठः पल्लवः ]
यत्किञ्चिद्भुवि तद्विनाशि सकलं कीर्त्तिः परं स्थायिनी, मत्वैवं वसुधाधिपैः परकृता लोप्या न सत्कीर्त्तयः ॥ २०६ ॥ बहुभिर्वसुधा भुक्ता, राजभिः सगरादिभिः । यस्य यस्य यदा भूमी, तस्य तस्य तदा फलम् ॥२०७॥
प्रजाः समावर्जयितुं समन्तात् त्वं कोमलैरेव करैर्यतेथाः ।
,
पश्यातिसङ्ख्यैर्दिवि तारकाभि-रासेव्यते शीतकरो न भानुः ॥ २०८ ॥
एवं शिक्षां शुभां दत्त्वा सुतं संस्थाप्य निश्चलम् । स्वयं संयममाराध्य, नृपः प्राप शिवं क्रमात् ॥ २०९॥ श्रीपुरुषोत्तमो भूपः प्राप्य साम्राज्यसम्पदम् । पितृशिक्षाप्रमाणेन, स्वप्रजाः समपालयत् ॥२१०॥ यतः - पर्जन्य इव भूतानामाधारः पृथिवीपतिः ।
[ २५१
विकलेऽपि हि पर्जन्ये, जीवितव्यं न भूपतौ ॥२११॥ अथान्यदा स भूमीशः, सुखशय्यासमाश्रितः । तुर्ययामे निशाशेषे, ददर्श स्वप्नमीदृशम् ॥२१२॥ पृथ्व्यां परिभ्रमन् कस्मिन्, पुरे राजा ययौ रयात् । तस्मिन् परिसरे देवकुले दृष्टा तपस्विनी ॥२१३॥ तत्समीपे महाहर्म्ये, प्रधानामेककन्यकाम् । सुरूपां सुभगां दृष्ट्वा, तस्यां जातः स रागवान् ॥२१४॥ तद्रूपं चिन्तयन् भूपस्तदा जागरितः प्रगे । यावत् संसदि नायाति, मन्त्री तत्राययौ तदा ॥ २१५॥ सोऽवादीत् सुमतिः स्वामिन्!, सभा सम्पूर्यते न किम् । स्वप्नचिन्तापरो राजा, न दत्ते किञ्चिदुत्तरम् ॥२१६॥ पुनः सुमतिनामाऽसौ, सचिवः स्माह हे प्रभो ! । अद्य चिन्तातुरः कस्मात् दृश्यसे त्वं ? तदुच्यताम् ॥२१७॥ राजा स्माह मया रात्रौ दृष्टोऽद्य स्वप्न ईदृशः । तस्या रूपेण कन्याया, मोहितोऽस्मि सचिन्तकः ॥२१८॥
5
10
15
20
25