________________
10
२०]
[धर्मकल्पद्रुमः Fs पुण्यैः सम्भाव्यते पुंसामसम्भाव्यमपि क्वचित् ।
तेरुर्मेरुसमाः शैलाः, किं न रामस्य वारिधौ ? ॥१९५॥ त्रयो धर्मार्थकामाह्वाः, पुरुषार्थाः प्रकीर्तिताः । पुनरेषु च सर्वेषु , धर्म एव प्रशस्यते ॥१९६॥ धर्मेण जायते ह्यर्थः, कामो धर्मेण जायते । धर्मेण जायते मोक्षः, सर्वं धर्मे प्रतिष्ठितम् ॥१९७॥ प्रसन्नो यस्य धर्मोऽस्ति, परमाकृष्टिमन्त्रकृत् । राज्यलक्ष्म्यादिकं सौख्यं, तस्य किञ्चिन्न दुर्लभम् ॥१९८॥ सुखं सांसारिकं राजन् !, प्राप्तं राज्याधनन्तशः । यतितव्यं तथा धर्मे, यथा मोक्षसुखं भवेत् ॥१९९॥ संसारासारतां ज्ञात्वा, नृपो मोक्षार्थसाधने । उत्सुकः स्वगृहे गत्वा, मूलामात्यमदोऽवदत् ॥२००॥ अथ संसारभीतोऽहं, ग्रहीष्यामि मुनिव्रतम् । राज्येऽत्र भवतां राजा, स्थाप्यते पुरुषोत्तमः ॥२०१॥ इत्युक्त्वा पुत्रमाकार्य, निवेश्य च निजासने । राज्ञाऽस्य निजहस्तेन, मुहूर्ते तिलकं कृतम् ।।२०२।। कृतो राज्याभिषेकश्च, जयढक्कारवोऽभवत् । आज्ञा प्रवर्तिता विश्वे, पुरुषोत्तमभूभुजः ॥२०३।। अथ पद्मोत्तरो राजा, दत्त्वा राज्यं स्वसूनवे ।
हितशिक्षां ददौ सम्यग् , विदग्धैर्भाषितामिति ॥२०४।। यतः- यः क्षोणी निजकां न रक्षति मुदा वाच्यः स भूपो मृषा,
यः शिष्याय हितानि नोपदिशति प्रायो गुरुर्नेदृशः । नापत्यानि निजानि पालयति या माताऽपि सा कीदृशी,
को नामैष पिता न शिक्षयति यः पुत्रं हितार्थीभवन् ? ॥२०५॥ 25 अन्यच्च- याता यान्ति महीभुजः क्षितिमिमां यास्यन्ति मुक्त्वाऽखिलां,
नो याता न च याति यास्यति न वा केनापि सार्धं धरा ।
15