________________
[२४९
षष्ठः पल्लवः]
एवं ब्रुवाणो वाक्यानि, निर्जगाम पुराबहिः । द्वारपालैरपि पुरप्रतोली पिदधे तदा ॥१८२॥ विषादं बिभरामास, स चाकृष्टः पुराद् भटः । अहो निशायां भीमायां, शृगालेभ्योऽपि मे भयम् ॥१८३।। कस्याहं कुत्र गच्छामि, को मेऽस्ति शरणं वने । इति कण्ठागतश्वासो, मुमूर्छ च पदे पदे ॥१८४।। तदुच्चभूरुहशाखामारुह्य रजनीमिमाम् । नेष्यामि नियतं प्रातर्यद्भाव्यं तद्भविष्यति ॥१८५॥ धीरे वृक्षाग्रमारूढे, क्षपायां सोऽपि केसरी । दंष्ट्राविसङ्कटमुखो, बूत्कुर्वन्नाययौ क्रमात् ॥१८६।। मृगारिनरगन्धेन, यावत् तस्थौ तरोरधः । तावद् धीरकरात् कुन्तो, वेपमानादधोऽपतत् ॥१८७।। तीक्ष्णोग्रकुन्तघातेन, धीरपुण्येन च द्रुतम् । मर्मविद्धो मृगारातिर्मृत्युमाप मुहूर्त्ततः ॥१८८।। धीरः प्रभाते वृक्षाग्रादनुत्तरन् सवेपथुः । बोधितः सिंहपञ्चत्वं, वयस्यैरिव वायसैः ॥१८९।। भीतभीतस्तमादाय, निवृत्तो विभ्रमोद्धरः । व्याजहार ससंरम्भं, विशेषावादिनो नरान् ॥१९०।। यात रे ! ब्रूत राजानं, मन्मत्सरधरान् तथा । मत्प्रसादात् पुरं सक्, सुखं तिष्ठतु निर्भयम् ॥१९१॥ निहत्य सिंहं सबलं, धीरे धीरशिरोमणिः । पुरद्वारमितो देव !, त्वन्मानमभिवाञ्छति ॥१९२।। तेभ्यो विज्ञातवृत्तान्तो, भूपः सम्मुखमागमत् । प्रावेशयच्च नगरं, तं महैनिकोविदः ॥१९३।। नृपप्रदत्तदेशोऽसौ, लोके विख्यातविक्रमः । वाक्शूरो धीरसुभटः, पुण्यात् प्राप परां श्रियम् ॥१९४।।
इति धीरकथानकम् ॥