________________
[धर्मकल्पद्रुमः राहुरूपसमान् मौलीन् , राजद्वारे मुमोच सः । स्वदोष्णोः पौरुषं राज्ञे, शशंस च सविस्तरम् ॥१६९।। राजाऽपि दुर्द्धरान् चौरान् , देशोपद्रवकारकान् । अजेयान् निहतान् तेन, वीक्ष्य विभ्रममासदत् ॥१७०॥ सेवां गृहाणेति पृष्टः, स आख्यन्निजविक्रमम् । यादृशे तादृशे कार्ये, न प्रेष्योऽहं नरेश्वर ! ॥१७१।। कष्टे भवच्छरीरस्य, समेते मम पौरुषम् । चमत्कारकरं चित्ते, मन्तव्यं मनुजेश्वर ! ॥१७२।। उरीकृत्येति भूपेन, महाऽऽग्रहपुरस्सरम् । वितीर्य लक्षं स्वर्णस्य, स्थापितोऽसौ भटाग्रणीः ॥१७३।। मन्यमानः प्रतिदिनं, भुञ्जानो भूपतेर्धनम् ।
आद्यक्षत्रियवर्गस्य, सोऽभूच्छल्यमिवानिशम् ॥१७४।। $ इतश्च तस्मिन्नगरे, तस्य कर्मविपाकतः ।
दुष्टः पञ्चाननः कश्चिच्चकारोपद्रवं महत् ॥१७५।। स हिनस्ति मनुष्याणां, गोवृन्दानां पुरस्तटे । प्रतोली तद्भयात् तत्र, सायाह्ने दीयते तदा ॥१७६।। कृपाणपाणयो वीरा, भुजाला ये धनुर्धराः । कृताश्रवास्ते सिंहेन, निन्यिरे यममन्दिरे ॥१७७।। प्रभूतशोको भूजनिर्मन्त्रिभिर्जगदे कदा । हरिणारेः स हन्ता तु , यो लक्षं लभते भटः ॥१७८॥ सिंहापराधसक्रोधो, नृपो धीराय बीटकम् । समर्प्य केसरिवधमादिशत् शूरदुष्करम् ॥१७९।। इहार्थे जनितो मात्रा, धीरश्चेतसि चिन्तयन् । वेपमानो भयात् क्रोधान्निजगाद धराधिपम् ॥१८०।। मादृशानां पशुवधं, निर्दिशन् किं न लज्जसे ? । अथवा शूरशूरत्वं, याति कुस्वामिसेवया ॥१८१॥