________________
षष्ठः पल्लवः ]
तथेति सर्व्वशस्त्राणि, सज्जीकृत्य स्वमन्दिरात् । कान्तया दत्तपाथेयो, ययौ देशान्तरं प्रति ॥ १५६॥ विसृज्य तां पुरीं वेगात्, व्रजन्नन्यायलम्पटैः । रुद्धो विख्यातचरितैः, सप्तभिः स मलिम्लुचैः ॥१५७॥ ऊचे स दीनवाग् भीरुः, क्षिपन् वक्त्रे दशाङ्गुलीः । वासःपाथेयशस्त्राणि, गृहीत्वा मां विमुञ्चत ॥ १५८॥ अनाथाशरणं दीनं, कम्पमानं भयद्रुतम् । भवतां किङ्करीभूतं, राजेन्द्राः ! किं न मुञ्चत ? ॥१५९॥ गृह्णीत मम सर्व्वस्वं विना जीवं दयालवः ! । एकोऽहमेव भर्त्ताऽस्मि, निजजायागृहाङ्गणे ॥ १६०॥ ततः सहासं ते चौरास्तत्पराक्रमरञ्जिताः । तं तत्यजुर्वस्त्रशेषं, सकम्पं गजकर्णवत् ॥१६१ ॥ गृहिणीक्षिप्तगरलं, तस्मादाप्तं च शम्बलम् । बुभुक्षितैस्तैर्बुभुजे, यमसेवाचिकीर्षुभिः ॥१६२॥ आहारदोषात् ते चौराः, शिश्यिरे दीर्घनिद्रया । धीरोऽपि विभ्रमभ्रान्तस्तत्सामीप्यमुपाययैौ ॥ १६३॥ मरुद्धूनितकूच्चास्तान् सजीवानेव चिन्तयन् । पुनरेव पलायिष्ट, धीरो दूरं भयातुरः ॥१६४॥ विश्वास्य मामरे धूर्त्ताः !, गृहीष्यथ भटोत्कटम् । इति काकैः क्षणैकेनापनिन्ये तस्य संशयः ॥ १६५॥
वायसावृतदेहानां, मृतानां परिमोषिणाम् । मण्डलाग्रेण मुण्डानि, छित्त्वा कट्यां बबन्ध सः ॥ १६६ ॥ कटीनिबद्धैस्तच्छीर्षैस्तुम्बीफलनिभैस्तदा ।
तरीतुं दौस्थ्यतटिनीं, स तारक इवाबभौ ॥१६७॥ तच्छस्त्रवस्त्राण्यपि स, समादाय मदोद्धुरः । जगाम हस्तिनापुरं, श्रीहर्षनृपराजितम् ॥१६८॥
[ २४७
5
10
15
20
25