________________
5
10
151
20
२]
गुरोरागमनं ज्ञात्वा, तदा पद्मोत्तरो नृपः । सपुत्रः सैन्ययुक् तत्र, गत्वा च तमवन्दत ॥१४५॥ गुरुर्धर्म्माशिषं दत्त्वा प्रारेभे धर्म्मदेशनाम् । भवादृशा भवारण्ये, पतन्ति किं पुनः परे ? ॥ १४६॥
[ धर्मकल्पद्रुमः
सम्पदो जलतरङ्गविलोला, यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव चञ्चलमायुः, किं धनैः परहितं न कुरुध्वम् ॥१४७॥
अर्हद्भक्तिमतां गुरुस्मृतिजुषां क्रोधादिशत्रुद्विषां भक्त्या पञ्चनमस्कृतिं च जपतां दानादिकं कुर्व्वताम् । इत्थं सिद्धिनिबन्धनोद्यतधियां पुंसां यशः शालिनां, श्लाध्यो मृत्युरपि प्रनष्टरजसां पर्यन्तकालागतः ॥१४८॥ जन्तूनां पुण्यतः सर्वं शुभं भवति नान्यथा । वेगात् सिध्यति चासाध्यमत्र धीरो निदर्शनम् ॥१४९॥ तद्यथा- नगर्यां पुण्डरीकिण्यां, कातरश्चरितैः पुरा ।
धीरो नाम्नाऽभवद्राज - पुत्रोऽनभ्यस्तविक्रमः ॥ १५०॥ धीरत्वं नामधेयेन, वर्त्तते तस्य नान्यथा । अतस्त्रपापरो गेहान्निः ससार कदाऽपि न ॥ १५१ ॥ वीरपुत्री प्रिया तस्य, पतिभीरुत्वदूमिता । लज्जमाना सखीवृन्दे, चित्ते दोदूयतेतराम् ॥१५२॥ सेवामलभमानोऽपि, कातरत्वात् स राजसूः । ऊचे मधुरवाणीभिः, गृहिण्या स्वान्तदुष्टया ॥ १५३॥ राज्येऽस्मिन् भवतः शौर्यमज्ञायि पुरवासिभिः । ततो व्रजान्यदेशेषु, कुरु कस्यापि सेवनाम् ॥ १५४॥
यथाऽन्यदेशभूपाला, देहपीनत्वमोहिताः । त्वच्चरित्रमजानानाः, प्रसादं ददतेऽधिकम् ॥ १५५॥
१. धर्मविशुद्धबद्धमनसां इति वा पाठः ।