________________
[२४५
षष्ठः पल्लवः]
एकाग्रचित्ततो वत्स !, ध्येयमेतन्मयोदितम् । इदमुक्त्वा महादेवी, तिरोऽभूत् तत्क्षणादपि ॥१३२॥ ततः स्कन्धे शवं धृत्वा, कुमारः पुरुषोत्तमः । जगाम तत्र योगी स, स्मशाने यत्र वर्त्तते ॥१३३॥ शवं प्रक्षाल्य चाभ्यर्च्य, योगिना रक्तचन्दनैः । अग्निकुण्डान्तिके मुक्तं, खड्गं दत्तं च तत्करे ॥१३४।। शवपादे कुमारं तं तैलाभ्यङ्गनहेतवे । निवेश्य योग्यभूद् ध्यानहोमाद्यैर्मन्त्रसाधकः ॥१३५।। तदाऽचिन्ति कुमारेण, किञ्चित् कूटं हि दृश्यते । अतोऽस्मरन्नमस्कार-मेकचित्तः सुरीगिरा ॥१३६।। ततः शवः समुत्थाय, चालयित्वा त्वसिं करे । अपतद् भूमौ कुमारे, विरूपं कर्तुमक्षमः ॥१३७।। योगिना चिन्तितं किञ्चित् , विस्मृतं मन्त्रसाधने । सावधानो ददौ भूयो, जापपूर्वकमाहुतिम् ॥१३८।। शवमुत्थाय चाकृष्य, खड्गं वीक्ष्य नृपाङ्गजम् । नमस्कारप्रभावेण, निष्प्रभाव पपात च ॥१३९।। ततस्तृतीयवेलायां, रुष्टो देवः शवस्थितः । कृत्वा योगिशिरश्छेदं, व्योम्न्युत्पत्य ययौ हसन् ॥१४०।। जातं स्वर्णमयं कुण्डे, पतितं योगिनः शिरः । तद् दृष्ट्वाऽग्नौ कुमारण, प्रक्षिप्तं योगिनो वपुः ॥१४१॥ कुण्डे प्रज्वाल्यमानं तत् , सञ्जातः स्वर्णपूरुषः । स्कन्धे धृत्वा कुमारण, स चानीतो निजे गृहे ॥१४२॥ मुक्त्वा तं च नृपस्याग्रे, सम्बन्ध: कथितोऽखिलः । ज्ञात्वा पुत्रस्य सद्भाग्यं, सहर्षोऽभून्नृपस्ततः ॥१४३।। अन्यदा तत्पुरोद्यानेऽभ्यगात् सूरिर्गुणाकरः । साधुसप्तशतीयुक्तः, स्थितस्तत्र शुभक्षितौ ॥१४४।।
15
25