SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ 40 [धर्मकल्पद्रुमः यत- दिग्गजकूर्मकुलाचल-फणिपतिविधृताऽपि चलति वसुधेयम् । प्रतिपन्नममलमनसां, न चलति पुंसां युगान्तेऽपि ॥१२२॥ अन्यच्च- श्रियो नाशं यान्तु व्रजतु निधनं गोत्रमखिलं, शिरश्छेदो वाऽस्तु प्रभवतु समन्ताद्विपदपि । विवेकार्कज्योतिर्विघटितमहामोहतमसः, प्रतिज्ञातादर्थात् तदपि न चलन्त्येव सुधियः ॥१२३॥ कृशानुसेवा फलकन्दवर्त्तनं, जटाधरत्वं वनवासिनां व्रतम् । महीपतीनामिदमेव तु व्रतं, यदात्मसत्यात् प्रलयेऽपि न च्युतिः ॥१२४॥ प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्ननिहता विरमन्ति मध्याः । विघ्नः पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमुत्तमगुणा (जना) न परित्यजन्ति ॥१२५॥ इत्थं श्रुत्वा पुनर्देवी, कुमारं प्रत्यभाषत । वत्सैकं मम वाक्यं त्वं, शृणु संशयवजितम् ॥१२६।। यतः- यस्मिन् कुले यः पुरुषः प्रधानः, स एव यत्नेन हि रक्षणीयः । तस्मिन् विनष्टे हि कुलं विनष्टं, न नाभिभङ्गेऽप्यरका वहन्ति ॥१२७॥ ततो हिताय ते वत्स !, पुनः शिक्षा प्रदीयते । यदा मण्डलमध्ये त्वां, स्थापयेद्योग्यसौ तदा ॥१२८॥ ॐकारपूर्वकं पञ्चपरमेष्ठिस्मृतिं धरेः । येन विघ्नानि शाम्यन्ति, विकटान्यपि निश्चितम् ॥१२९॥ सिंहेनेव मदान्धगन्धकरिणस्तीक्ष्णांशुनेव क्षपाध्वान्तौघा विधुनेव तापततयः कल्पद्रुणेवाधयः । तार्येणेव फणाभृतो घनकदम्बेनेव दावाग्नयः, सत्त्वानां परमेष्ठिमन्त्रमहसा वल्गन्ति नोपद्रवाः ॥१३०॥ सङ्ग्रामसागरकरीन्द्रभुजङ्गसिंह-दुर्व्याधिवह्निरिपुबन्धनसम्भवानि । चौरग्रहभ्रमनिशाचरशाकिनीनां, नश्यन्ति पञ्चपरमेष्ठिपदैर्भयानि ॥१३१॥ 15 25
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy