________________
[२४३
10
षष्ठः पल्लवः]
संसारे नरजन्मता न सुलभा पुंस्त्वेऽपि सद्वंशता, सद्वंशे बहुविद्यता बहुविदि प्रायस्तदर्थज्ञता । अर्थज्ञे स्फुटचित्रवाक्यपटुता तज्ज्ञेऽपि लोकज्ञता, लोकज्ञेऽपि सुधर्मता सुकृतिनि ब्रह्मज्ञता दुर्लभा ॥११०॥ द्वाविमौ पुरुषौ लोके, जगत्रयशिरोमणी । उपकारे मतिर्यस्य, यश्च नोपकृतापहः ॥१११॥ भूपोऽवादीत् सुतोऽयं मे, साहाय्यं ते करिष्यति । राजादेशात् कुमारोऽथ, जगाम सह योगिना ॥११२।। कृष्णाष्टम्यां रवेवरि, स्मशाने योग्यसौ ययौ । सम्पूर्य मण्डलं तत्र रक्तपुष्पैरपूजयत् ।।११३।। योगी प्रोचे कुमारात्राक्षताङ्गं शवमानय । तेनोक्तं मृतकं क्वास्ति, स वटोल्लम्बितं जगौ ॥११४॥ तत्र गत्वा कुमारोऽथ, वटमारुह्य तं शवम् । पाशं छित्त्वाऽमुचद् भूमावुत्ततार स्वयं ततः ॥११५।। वटोद्बद्धं शवं तावत् स ददर्श च पूर्ववत् । चटित्वा पादपे भूयो, मुमोच मृतकं भुवि ॥११६।। पुनर्वटे शवं दृष्ट्वा , चेष्टां ज्ञात्वा च दैवतीम् । गृहीत्वा मृतकं हस्ते, वृक्षादुत्तीर्य सोऽचलत् ॥११७।। मार्गे गच्छन् कुमारोऽसौ, शुश्रावेति नभोगिरम् । शवमादाय मा याहि, रे त्वां योगी हनिष्यति ॥११८।। श्रुत्वेत्यूर्ध्वमसौ यावदपश्यत् तावदग्रतः । दिव्यरूपधरा नारी, प्रत्यक्षीभूय चाब्रवीत् ॥११९॥ राज्याधिष्ठायिकाऽत्राहं, तव रक्षाऽर्थमागता । तव विघ्नकरो योगी, विद्याव्याजेन धूर्तराट् ॥१२०॥ मा याहि तत्समीपेऽतः, शवं मुक्त्वा गृहं व्रज । श्रुत्वेति राजसूः प्रोचे, प्रतिज्ञा मेऽन्यथा न हि ॥१२१॥
20
25