________________
२४२
[धर्मकल्पद्रुमः अथ पद्मोत्तरेणाशु , कृत्वा सामग्रिकां वशम् । ततः सुरङ्गतस्तस्य, सा पुत्री परिणायिता ॥९८॥ भोजयित्वा च सन्मान्य, वालितास्ते नराधिपाः । दत्त्वा शिक्षा कुमारेण, सार्धं सम्प्रेषिता सुता ॥९९।। सोऽप्यागच्छन्निजे राज्ये, प्रोदात् प्रेयसीयुतः । तस्य पुरप्रवेशं चाकारयत् तत्पितोत्सवात् ॥१००॥ तदा पद्मोत्तरो भूपो, वध्वा रूपेण रञ्जितः ।
मेने धन्यं सुतं यस्य, प्रियाऽभूद् गुणभूषिता ॥१०१॥ यतः- शीलं माईवमार्जव: कुशलता निर्लोभता च त्रपा,
वात्सल्यं स्वपरातिथिप्रभृतिके प्रेष्ये वरावर्जनम् ।
औचित्यं श्वशुरौकसि स्थिरमनास्तद्दूषणाच्छादनं, स्त्रीणां मण्डनमीदृशो गुणगणः शेषं तु भारात्मकम् ॥१०२॥ तदा तुष्टो नरेन्द्रोऽसौ, राधावेधस्य साधनात् । कुमारस्य विनीतस्य, युवराजपदं ददौ ।।१०३।। अन्यदाऽऽस्थानमासीनो, यावद्रूपः सुतान्वितः । षट्त्रिंशद्राजकुल्या च, संसेवितपदाम्बुजः ॥१०४।। तावत्कापालिकः कोऽपि, समागात् तत्र संसदि । ऊर्वीकृतभुजादण्डो, नृपायाशीर्वचो ददौ ॥१०५।। नृपेणाभाणि योगीन्द्र !, तवागमनकारणम् । कथय त्वं प्रसादं हि, कृत्वा सम्यग् ममोपरि ॥१०६।। योग्यूचे शृणु राजेन्द्र !, परोपकृतिकर्मठ । एको मन्त्रोऽस्ति मे तस्य, साहाय्यं कुरु साधने ॥१०७।। अस्मिन्नसारे संसारे, परोपकृतिमेव च ।
आयुःशरीरलक्ष्मीणां, सारं गृह्णाति बुद्धिमान् ॥१०८॥ यतः- शास्त्रं बोधाय दानाय, धनं धर्माय जीवितम् ।
कायः परोपकाराय, धारयन्ति विवेकिनः ॥१०९॥
15
20
25