________________
षष्ठः पल्लवः]
[२४१
अथ कन्या सुशृङ्गारा, सुरकन्येव भूगता । सखीजनवृता विष्वक्, सुखासनसमाश्रिता ॥८५।। पश्यन्ती च नृपान् सर्वान् , लज्जयेषन् निरीक्षणात् । वरमालां करे कृत्वा, तत्रागच्छत् स्वयंवरे ॥८६॥ तां वीक्ष्य भूमिपाः सर्वे, कामबाणैः प्रपीडिताः । एकदृष्ट्या च पश्यन्तो, दृश्यन्ते स्तम्भिता इव ॥८७।। मण्डपे तत्र माणिक्यस्तम्भ ऊर्वोऽस्ति मण्डितः । तस्याधो महती मुक्ता, ज्वलत्तैलकटाहिका ॥८८॥ स्तम्भोपरि द्वादशारं, चक्रं च रचितं चलत् । पाञ्चालिका च चक्रोष, नृत्यन्ती भ्रमति द्रुतम् ॥८९॥ पश्यन्कटाहिकामध्ये, बाणमूर्ध्वं विमुच्य च । विध्येद् दक्षो नरस्तस्या, वामदृष्टिकनीनिकाम् ॥९०॥ स एष, कथ्यते सद्भी, राधावेधः सुदुष्करः । राजोचे केन वीरेण, राधावेधोऽत्र साध्यताम् ॥९१॥ ज्ञातकन्याप्रतिज्ञास्ते, सर्वे तत्रागता नृपाः । राधावेधे जडाः सन्तो, जाताः श्याममुखा ह्रिया ॥१२॥ शब्दवेदी(धी) धनुर्वेदे, कोविदः पुरुषोत्तमः । अथोत्थाय सभामध्ये, स्तम्भस्याधः समागतः ॥९३।। चापमादाय चाकृष्य, युक्त्या सम्पूर्य सायकम् । विव्याध तत्क्षणाद्वामां, पुत्रिकायाः कनीनिकाम् ॥९४॥ असाध्यः साधितो राधावेधोऽनेन जयेति च । व्योमन्युच्छलिता वाणी, पुष्पवृष्टिं व्यधुः सुराः ॥१५॥ तत: पद्मावती हर्षोत्फुल्लनेत्रा व्यचिन्तयत् । पुराऽस्मिन् साभिलाषाहं, जाता सद्रूपमोहिता ॥९६।। इष्टं वैद्योपदिष्टं तत् , प्रतिज्ञा पूरिताऽद्य यत् । वरमालां ततः कन्या, कुमारस्य गलेऽक्षिपत् ॥९७।।