________________
[धर्मकल्पद्रुमः सात्त्विकः सुकृती दानी, राजसो विषयी भ्रमी । तामसः पातकी लोभी, सात्त्विकोऽमीषु सत्तमः ॥७२॥ शास्रशस्त्रकलाभ्यासकोविदः स कुमारराट् । सात्त्विकादिगुणैः पूर्णः, पावनं प्राप यौवनम् ॥७३।। पूर्वपुण्यप्रभावेण, महालीलापुरन्दरः ।
संयुक्तः सदृशैमित्रैः, स्वेच्छया क्रीडति स्म सः ॥७४।। $$ इतश्च कर्णाटदेशे, श्रीविशालपुरे वरे ।
अभवत् पद्मरथो भूपो, रूपनिर्जितमन्मथः ॥७५।। पद्मश्रीः प्रेयसी, तस्य, शीलशृङ्गारधारिणी । विनीता वनितामुख्या, बभूव गुणशालिनी ॥७६।। जातोपयाचितशतैस्तयोः पद्मावती सुता । पद्मिनीलक्षणा पद्मं, त्यक्त्वा पद्मागतेव च ॥७७।। मनोरथशतैः सार्धं, सा क्रमेण विद्धिता । चतुष्पष्टिकलायुक्ता, जाता प्राप्ता च यौवनम् ॥७८॥ तां संवीक्ष्य विवाहााँ, जातचिन्तो नराधिपः । तस्याः स्वयंवरं कर्तुं , बभूवोद्यमतत्परः ॥७९॥ तदा पद्मावती प्रोचे, प्रतिज्ञैषाऽस्ति तात ! मे । तं वरं परिणेष्यामि, राधावेधे हि यः क्षमः ॥८०।। श्रुत्वैवं सुविशेषेण, स्वयंवरणमण्डपम् । राधावेधमहायुक्तियुक्तं सोऽकारयन्नृपः ॥८१।। अनेकेष्वथ देशेषु , प्रेष्य तेन स्वमन्त्रिणः । आहूताः पृथिवीनाथा, आगताश्च क्रमेण ते ॥८२॥ आययौ सचिवाहूतः, कुमारः पुरुषोत्तमः । समित्रः सैन्यसंयुक्तः, शोभाडम्बरभासुरः ॥८३॥ आसनेषु निषण्णेषु , तेषु भूपेषु सोऽधिकम् । ऋद्ध्या रूपेण भाति स्म, पद्मोत्तरनृपाङ्गजः ॥८४॥