________________
षष्ठः पल्लवः]
[२३९ पुरुषोत्तमनामाऽथ, धात्रीभिः परिपालितः । क्रमात् प्रवर्द्धमानोऽसौ, सुतो जातोऽष्टवार्षिकः ॥५९॥ कलास्तेनाल्पकालेनाभ्यस्ताः प्राक् शिक्षिता इव ।
स्व र्गागतस्य पुंसो हि, किं नाम दुष्करं भवेत् ? ॥६०॥ यतः- कवित्वमारोग्यमतीव मेधा, स्त्रीणां प्रियत्वं बहुरत्नलाभः। 5
दानप्रसङ्गः स्वजनेषु पूजा, स्वर्गच्युतानां किल चिह्नमेतत् ॥६१॥ सुधर्मः सुभगो नीरुक्, सुदयः सुनयः कविः ।
सुस्वप्नः पात्रदानी च, स्वर्गगामी नरो भवेत् ॥६२॥ प्रस्तावादन्यच्च-विरोधता बन्धुजनेषु नित्यं, सरोगता मूर्खजनेषु सङ्गः ।
अतीव रोषी कटुका च वाणी, नरस्य चिह्नं नरकागतस्य ॥६३॥ 10 सरोगः स्वजनद्वेषी, कटुवाग् मूर्खसङ्गकृत् । निनो निर्दयमानी च, स याति नरकावनिम् ॥६४॥ बह्वाशी नैव सन्तुष्टो, मायी लुब्धः क्षुधातुरः । दुस्स्वप्नी चालसो मूढस्तिर्यग्योन्यागतो नरः ॥६५॥ मायी लोभी क्षुधालुश्चाकार्यसेवी कुसङ्गकृत् । बन्धुद्वेषी दयाहीनः, स च तिर्यग्गतिं गमी ॥६६॥ अनुलोमो विनीतश्च, दयादानरुचिद॒दुः । सहर्षो मध्यदर्शी च, मनुष्यादागतो नरः ॥६७॥ निर्दम्भः सदयो दानी, दन्तो दक्षः सदा मृदुः ।
साधुसेवी जनोत्साही, भावी चात्र नरः पुनः ॥६८॥ अन्यच्च- साभिमाना गुणैस्तुङ्गा, व्यवहारेण धार्मिकाः ।
विभवाभावासन्तुष्टा, मानवांशाश्च ते नराः ॥६९॥ धीरोद्धतगुणैस्तुङ्गा आराध्येष्वपि गर्विताः । लोकोपतापप्रवणा, दानवांशा नराः स्मृताः ॥७०॥ लोकोत्तरगुणैर्नम्राः, स्वकीर्तिश्रुतिलज्जिताः । स्वार्थं परार्थं मन्वाना, देवांशाः पुरुषोत्तमाः ॥७१॥
25