________________
स]
[धर्मकल्पद्रुमः यत्राजितानि पुण्यानि, भुजानाः प्रत्यहं जनाः । अजयन्ति नवीनानि, धनानीव विवेकिनः ॥४६॥ कार्पण्यं स्वयशोदाने, लोभो गुणगणार्जने । विद्यते व्यसनं यत्र, जनानां धर्मसेवने ॥४७॥ तत्पुरं पालयामास, राजा पद्मोत्तराभिधः ।
गुणसौरभ्यतो विश्वं, वासितं येन पद्मवत् ॥४८॥ यतः- ओजः सत्त्वं नति-र्व्यवसायो वृद्धिरिङ्गितज्ञानम् ।
प्रागल्भ्यं सुसहायाः, कृतज्ञता मन्त्ररक्षणं त्यागः ॥४९॥ जनरागः प्रतिपत्तिः, मित्रार्जनमानृशंस्यमस्तम्भः । आश्रितजनवात्सल्यं, दश सप्त गुणाः प्रभुत्वस्य ॥५०॥ युग्मम् ॥ सद्धर्मचारिणी तस्य, जाता नाम्ना मनोहरा । पञ्चसहस्त्राराज्ञीनां, मुख्या या महिषी वरा ॥५१॥ रजन्यामन्यदा देव्या, तया स्वप्ने महागजः । सश्रीक: सबलो दृष्टः, प्रचण्ड: पर्खताकृतिः ॥५२॥ प्रभाते भर्तुरग्रे सा, प्रिया स्वप्नं न्यवेदयत् । पप्रच्छ च प्रभो ! स्वप्नफलं किं मे भविष्यति ? ॥५३॥ स्वबुद्धिकुसलत्वेन, राजाऽवोचत् प्रिये ! शृणु । एतत्स्वप्नानुभावेन, तव भावी सुतोत्तमः ॥५४॥ एवं श्रुत्वा भृशं राज्ञी, प्रमोदपेशलाऽभवत् । तद्दिनात् कः सुरश्च्युत्वा, तस्याः कुक्षाववातरत् ॥५५॥ तं गर्भं बिभ्रती राज्ञी, विशेषात् शुशुभेतराम् । निधानं रत्नगर्भव, शुक्तिवन्मौक्तिकव्रजम् ॥५६।। दोहदाश्च शुभास्तस्या, उत्पन्नाः पूरिता अपि । शुभेऽह्नि सुषुवे सूनुं , सा सुभाग्यं शुभाकृतिम् ॥५७।। पुत्रे जाते नृपस्याङ्गे, हर्षोत्कर्षो ममौ न हि । महता विस्तरेणासौ, तस्य जन्मोत्सवं व्यधात् ॥५८।।
15
25