________________
षष्ठः पल्लवः]
[२३७ एकैकं तीर्थकृन्नामकर्मबन्धस्य कारणम् ।
एकं द्वे त्रीणि सर्वाणि, सेवितानि पुरा जिनैः ॥३५॥ काव्यम्- ताराणां तरणिः शशी च तमसां वल्लीवनानां द्विपः,
शीतानामनलोऽनिलो जलमुचां दम्भोलिरुर्वीभृताम् । दानं दुर्यशसां मणिविषरुजां यादृग्गदानां सुधा, भूयोजन्मभुवां शरीरिषु भवेत्तादृक् तपोऽप्यंहसाम् ॥३६॥ सौभाग्यं भुवनाधिपत्यपदवीरूपं ददात्यद्भुतं, लक्ष्मी कामपि सञ्चिनोति तनुते कुन्दावदातं यशः । भोगान्मर्त्यसुरेन्द्रयोरपि सुखं दत्ते प्रदत्ते शिवं, तत् किं यन्न ददाति सौख्यमसमं तप्तं विशुद्धं तपः ॥३७॥ 10 यन्न सिध्यति तन्नास्ति, तपोमाहात्म्यतोऽङ्गिनाम् । वाञ्छितार्थस्य संसिद्धिर्यथाऽभूत् पुरुषोत्तमे ॥३८॥ पप्रच्छ प्रभुपार्श्वे स, गणभृद्गौतमः पुनः । कथं सत्तपसा सिद्धिः, सञ्जाता पुरुषोत्तमे ॥३९।। मेघमुक्तं यथा नीरं, वस्तुवर्णसमं भवेत् । स्वाम्युवाच तथा सर्वसत्त्वभाषानुगं वचः ॥४०॥ अस्मिन्नेव महाद्वीपे, क्षेत्रे भरतसंज्ञके । पद्मिनीपुरमित्यस्ति, पद्मासुन्दरमन्दिरम् ॥४१॥ वसन्ति धनिनो लक्षकोटीशा यत्र लक्षशः ।
खेलन्ति भोगिनो यत्र, परमानन्दपूरिताः ॥४२॥ यतः- दुग्धेन धेनुः कुसुमेन वल्ली, शीलेन नारी सरसी जलेन ।
सुस्वामिना भान्ति सभासदश्च, शमेन विद्या नगरी धनेन ॥४३॥ सुधर्मशीलश्च विशुद्धचित्तास्तीर्थेषु पात्रेषु च दत्तवित्ताः । भयोज्झिता वीतवियोगशोका, विवेकिनो यत्र वसन्ति लोकाः ॥४४॥ गुणिनः सूनृतं शौचं, प्रतिष्ठा गुणगौरवम् । अपूर्वज्ञानलाभश्च, यत्र तत्र वसेत् सुधीः ॥४५॥
15
25