________________
मा
10
[धर्मकल्पद्रुमः ज्ञानोपयोगसातत्यं, द्वादशाङ्गागमस्य च । सूत्रार्थोभयभेदेन, स्थानं ननु तदष्टमम् ॥२२॥ दर्शनं रहितं शङ्काद्यैः स्थैर्यादिगणान्वितम् । शमादिलक्षणं यत्तु , स्थानकं नवमं मतम् ॥२३॥ विनयो यः चतुर्भेदो, ज्ञानाद् दर्शनतोऽपि च । चारित्रादुपचाराच्च, स्थानं तद्दशमं मतम् ॥२४॥ आवश्यकं भवेत् स्थानमेकादशमिदं पुनः । इच्छादिर्दशधा या च, सामाचारी जिनोदिता ॥२५॥ शीलव्रतं विशुद्धं यन्नवगुप्तिनियन्त्रितम् । यत्पाल्यं निरतीचारं, स्थानं तद् द्वादशं भवेत् ॥२६॥ त्रयोदशमिदं स्थानं, क्षणे क्षणे लवे लवे । शुभध्यानस्य कारणं, प्रमादपरिवर्जनम् ॥२७॥ तपो विधीयते शक्त्या, बाह्याभ्यन्तरभेदवत् । असमाधिपरित्यागात् , स्थानमुक्तं चतुर्दशम् ॥२८॥ त्यागोऽतिथिसंविभागः, शुद्धान्नोदकदानतः । तपस्विनां यथाशक्त्या, स्थानं पञ्चदशं हि तत् ॥२९॥ वैयावृत्त्यं तु गच्छस्य, बालादिदशभेदतः । भक्तविश्रामणाद्यैः स्यात, षोडशं स्थानकं किल ॥३०॥ समाधिः सर्वलोकस्य, पीडादिकनिवारणात् । मन:समाधिजननं, स्थानं सप्तदशं भवेत् ॥३१॥ अपूर्वज्ञानग्रहणात् , सूत्रार्थोभयभेदतः । अष्टादशमिदं स्थानं, सर्वज्ञैः परिभाषितम् ॥३२॥ श्रुतभक्तिः पुस्तकानां, लेखनादिषु कर्मतः । व्याख्यानख्यापनैरेकोनविंशं स्थानकं भवेत् ॥३३॥ प्रभावना प्रवचने, विद्यावादनिमित्ततः । शासनस्योन्नतिर्या स्यात् , स्थानं विंशतिसंज्ञकम् ॥३४॥
15
20
25