SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ [२३५ षष्ठः पल्लवः] अस्माभिरपि यच्चक्रे, प्रव्रज्याज्ञानमुक्तिषु । माहात्म्यं तपसस्तस्य, श्रुतिवाचामगोचरः ॥९॥ सुमतिस्त्वेकभक्तेन, चतुर्थाद्वसुपूज्यभूः । पार्श्वमल्ली अष्टमेन, शेषाः षष्ठात् प्रवव्रजुः ॥१०॥ अष्टमात् केवलं प्रापुः, श्रीपार्श्वर्षभमल्लयः । वासुपूज्यश्चतुर्थेन, शेषाः षष्ठेन ज्ञानिनः ॥११॥ उपवासैः शिवं षड्भिरगान्नाभिभवो जिनः । द्वाभ्यां वीरोऽपरे मासक्षपणेन शिवं गताः ॥१२॥ यतः- बहिरङ्गमलस्य जलैराहारमलस्य भेषजैः शुद्धिः । वचनमलस्य च दिव्यैर्दुष्कर्ममलस्य सत्तपसा ॥१३॥ अनेकैरपि भेदैस्तत्कथितं ज्ञानिभिस्तपः । विंशतिस्थानकं किन्तु , तीर्थकृद्गोत्रदायकम् ॥१४॥ तद्यथा- अर्हतां प्रतिमार्चाभिरर्हतां स्तवनादिभिः । एकमज्जितवान् स्थानमवर्णादिनिवारणैः ॥१५॥ सिद्धिस्थानेषु सिद्धानामुत्सवैः प्रतिजागरैः । एकत्रिंशत्सिद्धगुणोत्कीर्त्तनैश्च द्वितीयकम् ॥१६॥ प्रवचनोन्नतिः सम्यग् , ग्लानक्षुल्लादिसाधुषु । अनुग्रहमनोज्ञा या स्थानमेतत्तृतीयकम् ॥१७॥ गुरूणामञ्जलिं बद्ध्वा, वस्त्राहारादिदानतः । असमाधिनिषेधेन, स्थानमेतत्तुरीयकम् ॥१८॥ स्थविरा द्विविधाः प्रोक्ता, वयसा सुगुणैरपि । तेषां भक्तिविधानेन, पञ्चमं स्थानकं विदुः ॥१९॥ बहुश्रुतानां ग्रन्थार्थवेदिनां तत्त्वशालिनाम् । प्रासुकान्नादिदानेन, षष्ठं स्थानमुदीरितम् ॥२०॥ तपस्विनां सदोत्कृष्टतपःकर्मस्थिरात्मनाम् । विश्रामणादिवात्सल्यात् सप्तमस्थानमुच्यते ॥२१॥ 25
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy