________________
10
प्रथमः पल्लवः]
[ ७ जीवाजीवादितत्त्वानि, जिनपूजादिकं पुनः । भावना द्वादशैवं च, पत्राणि विविधान्यपि ॥४०॥ विवेकादिगुणौघोऽस्य, नवीनः किसलोच्चयः । सज्जन्मस्वर्गसौख्यानि, यस्य पुष्पाणि भूतले ॥४१॥ अक्षयं सुखमाप्नोति, नरो मोक्षस्य यत्सदा । फलं पुण्यतरोरेतत्कथितं श्रीजिनागमे ॥४२॥ मित्रपुत्रकलत्राणि, बान्धवाः स्वजना धनम् । धान्यं चेति गृहस्थानां, छाया यस्य सुशीतला ॥४३॥ मनःशुद्धिपयःपूराद् , वृद्धि गच्छति यः सदा । दीनानाथविहङ्गानामाधारः सर्वदापि यः ॥४४॥ यत्फलास्वादनं रम्यं, जीवाः कुर्खन्त्यनेकशः । सप्तक्षेत्रमयी शुद्धा, भूमिर्दोषविवर्जिता ॥४५॥ भो भव्याः ! श्रूयतां सम्यङ्-मानसे दम्भवजिते । धर्मकल्पद्रुमः सोऽयं, सेवनीयः सदादरात्" ॥४६॥ नवभिः कुलकम् ॥ श्रेयःसौभाग्यमग्र्यं ललितयुवतयश्चित्रवस्त्राणि हारा, छत्रं चञ्चत्तुरङ्गा मदकलकरिणः काञ्चनं शुद्धगेहम् । सौख्यं लक्ष्मीः प्रभूता प्रवरकनकभाः शुभ्रकीर्तिश्च लोके,
श्रद्धा सद्धर्ममार्गे भवति ननु फलं धर्मकल्पद्रुमस्य ॥४७॥ अथ च- सप्तविंशतिभानिन्दु-वत्सप्तविंशति भवान् ।
भ्रान्त्वा भास्वत्पदं भेजे, यः श्रीवीरः श्रियेऽस्तु वः ॥४८॥ एकदा श्रीमहावीरः, पावयन् पृथिवीतलम् । सुरसञ्चारितस्वर्ण-कमलेषु पदौ न्यसन् ॥४९॥ विहरन् वसुधापीठे, भव्यसत्वान् प्रबोधयन् । ययौ स्वजन्मनः स्थाने, ग्रामे क्षत्रियकुण्डले ॥५०।। युग्मम् ॥ सुरासुरनरैर्युक्तः, सेवितो गौतमादिभिः । तत्रैव समवासार्षीत् , सिद्धार्थोद्यानभूमिषु ॥५१॥
15
20