________________
८
।
[धर्मकल्पद्रुमः देवैः समवसरणं, रचितं विधिवत् तदा । सहस्रांशुरिव स्वामी, पूर्वसिंहासनं श्रितः ॥५२॥ चतुःषष्टिः सुरेन्द्राश्च, मिलितास्तत्क्षणादपि । देवदुन्दुभिमुख्यानि, तथा वाद्यान्यवादयन् ॥५३॥ प्रभोरागमनं ज्ञात्वा, वनपालेन वेगतः । नन्दिवर्धनभूपालो, विज्ञप्तो विनयादिति ॥५४॥ स्वामिन् वर्धाप्यसेऽत्यन्तं, कल्याणं भवतात्तव । जिनेन्द्रः श्रीमहावीरो, भवद्भ्राता समागतः ॥५५॥ उल्लसद्रोमकूपोऽथ, वनपालाय भूपतिः । सार्धद्वादशलक्षाणि, सुवर्णस्य ददौ मुदा ॥५६॥ दत्तः पञ्चाङ्गप्रासादः, स्वर्णजिह्वान्वितः पुनः । ससैन्यः सोत्सवं राजा, ययौ वन्दनहेतवे ॥५७।। तस्मिन्नेव क्षणे तत्र, राजा श्रीहस्तिपालकः । अकस्मादागमद् दक्षः, पापापुर्या नरेश्वरः ।।५८।। श्रीवीरागमनं ज्ञात्वा, भूत्वा प्रमोदमेदुरः । तदा च श्रेणिकः श्रीमान् , आगतो मगधेश्वरः ॥५९॥ तत्र त्रयोपि भूपाला, मिलिता वीरवन्दने ।
स्वर्णं सौगन्धिकं जातं, हर्षितो नन्दिवर्धनः ॥६०॥ यतः- सद्यः प्रीतिकरो नादः, सद्यः प्रीतिकराः स्त्रियः ।
सद्यः शीतहरो वह्निः, सद्यः पापहरो जिनः ॥६॥ पञ्चाभिगमपूर्वञ्च, दत्वा तिस्रः प्रदक्षिणाः । ते त्रयोऽप्यथ संभूय, वीरपादान् ववन्दिरे ॥६२॥ दर्शनाद्देवदेवस्य, ते भूपा हृष्टमानसाः । स्तुतिञ्च चक्रिरे भक्त्या, योजयित्वा करौ निजौ ॥६३॥ "सुप्रभातं सुदिवसं, कल्याणं मेऽद्य मङ्गलम् । यद्वीतराग ! दृष्टोऽसि, त्वं त्रैलोक्यदिवाकरः ॥६४॥
25