________________
[धर्मकल्पद्रुमः धर्मस्यैतस्य माहात्म्यमुच्यते लेशतो मया । पादप्रसारणं यस्माद्भवेत् सौड्यनुमानतः ॥२८॥ पूर्वं कविवरा आसन् , प्राप्तश्रीभारतीवराः । क्षीराब्धिसन्निभा ग्रन्था, भूरिशस्तैर्विनिर्मिताः ॥२९॥ तेषां हि स्पर्धया ग्रन्थं, कुर्वन् यास्यामि हास्यताम् । इच्छन् सत्फलमूर्ध्वस्थं, ग्रहीतुमिव वामनः ॥३०॥ स्पृहां कुर्वे विना नावं, तरीतुं फलकेऽम्बुधिम् । स्वल्पबुद्धिरहं किञ्चित्-धर्मव्याख्याकृतेच्छया ॥३१॥ वातोड्डायितपानीय-कणानिच्छन्ति वा यथा । ग्रहीतुं कोऽपि वा नीर-संस्थितं चन्द्रमण्डलम् ॥३२॥ तथाहं मुखरीभूय, मूर्खः स्वल्पश्रुतोऽपि च । नवीनग्रन्थकरणे, कुर्वे वाञ्छां गतत्रपः ॥३३॥ युग्मम् ।। तथापि गुरुसान्निध्यात् , श्रीसङ्घानुमतेन च । करोमि मुग्धबोधार्थं, सुगमं सुकथानकम् ॥३४॥ क्षन्तव्यं तद्बुधैः सर्वं, मया मूर्खेण यत्कृतम् । दयां विधाय दीनस्य दोषो वाच्यो न तैः कदा ||३५|| सन्तः स्वभावतो विश्वे, दोषाच्छादनतत्पराः ।
निर्मिता जगतः का, महीमण्डनमौक्तिकाः ॥३६।। यतः- पूर्वशास्त्रानुमान, धर्मकल्पद्रुमाभिधम् ।
धर्माख्यानमथो वच्मि, नवपल्लवसंयुतम् ॥३७॥ "बीजं जीवदया यस्य, सद्वृत्तं कन्द उच्यते । लज्जा स्तम्भो दृढो ज्ञेयः, सद्बुद्धिस्त्वक्प्रकीर्तिता ॥३८॥ दानशीलतपोभावा, मुख्यशाखाचतुष्टयम् । विचाराचारविनयाः, प्रतिशाखाशतं मतम् ॥३९॥
१. शय्यानुमा० ।