________________
5
10
15
20
25
२]
[ धर्मकल्पद्रुमः
एवं लग्गन्ति दुम्मेहा, जे नरा कामलालसा । विरत्ता ते न लग्गन्ति, जहा से सुक्कगोलए ॥८५०॥ [ उत्त./९७१ ] श्रुत्वैवं सुगुरोर्वचो नरपतिः श्रीरत्नपालाभिधः, संसाराद्विमुखोऽभवच्छुभमतिर्दीक्षाभिलाषी ततः । श्रीमन्मेघरथः सुतो निजपदे संस्थापितोऽथामुना, दत्ता हेमरथादिनन्दनशतस्यापि स्वदेशाः पृथक् ॥८५१ ॥ पृथिवीमनृणां चक्रे, राजा वाञ्छितदानतः । वपति स्म धनं तीर्थे, सत्पात्राणि पुपोष च ॥८५२॥ सद्दिने गजमारुह्य, सर्वसैन्यसमन्वितः । महोत्सवेन राजाऽगाद् व्रतार्थं गुरुसन्निधौ ॥८५३|| सहस्रसङ्ख्यभूपालै, राज्ञीभिर्नवभिः पुनः । अन्यैश्चापि नरैः सार्धं, स चारित्रमुपाददे ॥८५४॥ राज्यं प्राप्य पुरा येन, विदिता बाह्यशत्रवः । जेतुं भावरिपुं पश्चात्, दीक्षासाम्राज्यमाददे ||८५५ ॥ तज्जयार्थं क्षमाखड्गं, जिनाज्ञाशीर्षकञ्च सः । शीलसन्नाहमाधायारुरोह ज्ञानहस्तिनम् ॥८५६॥ पुत्रा मेघरथाद्यास्ते, तातं नत्वा गता गृहम् । ततः केवलिना सार्धं, राजर्षिर्विजहार सः ॥८५७ सर्वसिद्धान्तविज्ञोऽसौ, लेभे सूरिपदं क्रमात् । भव्यसत्त्वाम्बुजारामं, सूर्यवच्च व्यबोधयत् ॥८५८॥ क्षपकश्रेणिमारूढो, घनकर्मचतुष्टयम् ।
क्षिप्त्वा सम्प्राय सोऽन्येद्युः, केवलज्ञानमुज्ज्वलम् ॥८५९॥ काव्यम्- युक्तः पञ्चसहस्त्रसाधुभिरयं श्रीरत्नपालो मुनिः, पञ्चाशीतिसुवर्षलक्षप्रमितं सम्पाल्य चायुर्निजम् । धर्मानन्तजिनान्तरे शिवपदं संप्राप्य सिद्धा तथा, साध्वी पञ्चशतैर्युता भगवती शृङ्गारसुन्दर्यपि ॥८६०॥