________________
पञ्चमः पल्लवः ]
इत्युक्ता शीलमाहात्म्ये, शृङ्गारसुन्दरीकथा । तत्प्रस्तावे कृतं रत्नपालसत्पुण्यवर्णनम् ॥८६१॥ तस्यैवाष्टान्यराज्ञीनां, सतीनाञ्च कथा मताः । अन्येऽपि शीलसम्बन्धाः प्रोक्ताः सम्बोधदायकाः ||८६२ ॥ श्रीवीरः स्माह भो भव्याः !, रत्नपालप्रियाकथाम् । श्रुत्वा सुशीलमाहात्म्ये, पालनीयं त्रिधापि तत् ॥८६३॥ श्रीमन्मल्लीजिनोऽथ नेमिजिनपो जम्बूप्रभुः केवली, सम्यग्दर्शनवान् सुदर्शनगृही श्रीस्थूलिभद्रो मुनिः । सच्चङ्कारिसरस्वती च सुलसा सीता सुभद्रादयः, शीलोदाहरणेष्वमी सुभविनो जाता भविष्यन्ति च ॥८६४ ॥ परसमयेऽपि- स्नातं तेन समस्ततीर्थसलिलैः सर्वापि दत्ता मही, यज्ञानाञ्च कृतं सहस्रमधिकं देवाश्च सन्तर्पिताः । संसाराच्च समुद्धृताः सुपितरस्त्रैलोक्यवन्द्योऽप्यसौ, यस्य ब्रह्मविचारणे क्षणमपि स्थैर्यं मनः प्राप्नुयात् ॥८६५ ॥ शीलं भाग्यलतामूलं, शीलं कीर्त्तिनदीगिरिः । शीलं भवाब्धितरणे, यानपात्रसमं मतम् ॥८६६॥ इत्थं प्रोक्ता शीलशाखा, धर्मकल्पद्रुपादपे । एनां वीरमुखाच्छ्रुत्वा, भव्या आनन्दमादधुः ॥८६७॥
इति श्रीवीरदेशनायां श्रीधर्म्मकल्पद्रुमे चतुः शाखिके द्वितीयशीलशाखायां श्रीरत्नपालप्रियाशृङ्गारसुन्दर्याख्याने पञ्चमः पल्लवः समाप्तः ॥५॥
[ २३३
5
10
15
20