________________
पञ्चमः पल्लवः]
[२३१ सुतशोकेन तन्माता, हृदयस्फोटतो मृता । आर्तध्यानेन मार्जारी, जाताऽसौ निजवेश्मनि ॥८३७।। वसुदत्तोऽन्यदाऽन्यत्र, गत्वा वाणिज्यकर्मणि । प्राप्य लाभं वलित्वा च, गतस्तामटवीं क्रमात् ॥८३८॥ यत्र राजशुकोऽप्यस्ति, तत्सुतः पूर्वजन्मनि । भवितव्यात् स तत्रास्थात् , यत्र तत्कीरसंस्थितिः ॥८३९।। स सहकारशाखायां, निविष्टो ददृशेऽमुना । मोहात् पाशेन बद्ध्वा च, गृहीत्वागान्निजे पुरे ॥८४०॥ रम्यपञ्जरके क्षिप्त्वा, पुत्रवत्तमपालयत् । भोजयत्यात्मना सार्द्ध, पाठयेत् स दिवानिशम् ॥८४१॥ श्रेष्ठिनो विस्मृतं दातुं , पञ्जरद्वारमेकदा । कर्मयोगेन मार्जार्या, तया कीरो विनाशितः ॥८४२।। वसुदत्तोऽथ तच्छोकं, न मुमोच दिवानिशम् । कियत्यपि गते काले, तत्रागात् कोऽपि केवली ॥८४३।। वसुदत्तोऽथ तं नत्वा, पप्रच्छ रचिताञ्जलिः । शुकोपरि कथं मोहो, घनो मेऽभूद्वद प्रभो ! ॥८४४।। भा-नन्दनसम्बन्धं, तस्याग्रे केवली जगौ । ततो वैराग्यतो दीक्षां, गृहीत्वा स ययौ शिवम् ॥८४५।। हे रत्नपाल ! संसारचेष्टेयं चित्रकारिणी । पुत्रः प्रियः शुको जातो, जनन्या सोऽपि भक्षितः ॥८४६।। इत्यादि भववृत्तान्तं, प्रोक्त्वा(च्य) प्रोवाच केवली ।
मनोवचनकायाद्याः, स्थिरीकार्या भवच्छिदे ॥८४७॥ यतः- मनोविशुद्धं पुरुषस्य तीर्थं, वाक्संयमश्चेद्रियनिग्रहश्च ।
त्रीण्येव तीर्थानि शरीरभाजां, स्वर्गञ्च मोक्षञ्च निदर्शयन्ति ॥८४८॥ उल्लो सुक्को य दो छूढा, गोलया मट्टियामया । दो वि आवडिया कुडे, जो उल्लो सोऽत्थ लग्गई ॥८४९॥ [उत्त./९७० ]
25