________________
5
10
15
20
25
想
३]
[ धर्मकल्पद्रुमः
चतुर्मासीमथो भूपः, केवलज्ञानिनं गुरुम् । संस्थाप्यात्मपुरे भक्त्या, चक्रे धर्मप्रभावनाम् ॥८२४|| अमारिं भूरिदेशेषु, प्रावर्त्तयत सर्वदा ।
न्यावारयच्च सप्तापि, व्यसनानि निजाज्ञया ॥८२५॥ जिनालयेषु वादित्रगीतनृत्यध्वजादिकान् । महोत्सवान् महापूजां, कारयामास सोऽन्वहम् ||८२६|| कस्मिन् पुण्यदिने राजा, गृहीत्वा पौषधं व्रतम् । पप्रच्छ च गुरुं नत्वा, कीदृक् संसारचेष्टितम् ? ॥८२७|| गुरुर्जगाद संसारो, गहनो यत्र देहिनः ।
भूयो भूयोऽपि जायन्ते, नानागतिषु कर्मभिः ॥८२८ ॥ स एव जायते तिर्यङ्, स एव नारको भवेत् ।
स एव मानवोऽपि स्यात् स एव च सुरो भवेत् ॥८२९॥ पिता क्वापि भवेत् पुत्रो, माता है है भवेद्वधूः । बन्धुर्भवति वैरी च, भविनो हि भवान्तरे ॥ ८३०॥ संसारे कोऽपि नो कस्य, वृथा मोहं धरेद्भवी । अत्रार्थे वसुदत्ताङ्गजन्मनः कथ्यते कथा ॥ ८३१ ॥ यतः - सुयभवे सुच्छन्दं, मुद्दियलयमण्डवेहि खेलंतो ।
जणएण पासएहं, बद्धो खद्धो य जणणीए ॥ ८३२॥ [ ] तथाहि काञ्चनपुरे, वसुदत्तः सुसार्थपः ।
तद्भार्या वसुमत्याह्वा, सुतोऽभूद् वरुणस्तयोः ॥ ८३३|| मातापित्रोः स चात्यन्तं, प्राणेभ्योऽप्यधिकः प्रियः । महामोहात् क्षणमपि, तं विना तौ न तिष्ठतः ||८३४|| अत्याग्रहेऽन्यदा पुत्रो, गतो देशान्तरं प्रति । उपार्ण्य धनलक्षाणि, वलितोऽसौ गृहं प्रति ॥ ८३५॥ भीमाटव्यां मृतः शूलरोगो राजशुकोऽजनि । धनं कियद् गतं तस्य, शेषं दत्तं पितुर्जनैः ||८३६||