________________
[२२९
पञ्चमः पल्लवः]
श्रीदेव्यपि मृता राज्ञी, जाता शृङ्गारसुन्दरी । तापसः सिद्धदत्तोऽथ, कृत्वाऽज्ञानतपो मृतः ॥८११।। जयनामाभवन् मन्त्री, स ते राज्ये धराधिप । पूर्वं त्वयाऽस्य यत्पोतो, धृतो द्वादश वासरान् ।।८१२॥ तस्माद् द्वादश वर्षाणि, तेन त्वद्राज्यमाददे । पुरितादण्डितस्तेन, जातो वैरी तवेह सः ॥८१३।। शृङ्गारसुन्दरी पूर्वभवे मार्गे क्वचिन्मुनिम् । कायोत्सर्गस्थितं धूलिक्षेपणाद्यैरताडयत् ॥८१४।। तेन पापप्रभावेण, पीडिता जयमन्त्रिणा । कृतोऽल्पो हि महर्षीणामुपसर्गोऽतिदुःखदः ॥८१५॥ जीवोऽपि धनदत्तस्य, सोऽभूद्वैदेशिको नरः । वनमध्ये त्वया दत्ताऽऽराधना यस्य रोगिणः ॥८१६।। स मृत्वाऽभूत् ततो देवः, पूर्वप्रीत्येह येन ते । सङ्ग्रामे मन्त्रिणा सार्धं, सान्निध्यं कृतमुत्तमम् ॥८१७।। पुनः पुण्यप्रभावेण, स्वराज्यं भोगसौख्यदम् । त्रिखण्डाधिपतित्वञ्च, सम्प्राप्तं भवता नृप ! ॥८१८।। पुरा तन्दुलनीरेण, भृत्वा पात्रं यदर्पितम् । मुनिभ्यस्तेन पुण्येन, प्राप्तः सद्रसकुम्पकः ॥८१९।। पुरा कनकमञ्जर्या, रे कुष्ठिन् ! मद्वचो न किम् । करोषीति निजे भृत्ये, प्रोक्तं सा तेन कुष्ठिनी ॥८२०।। एवं प्राग् गुणमञ्जर्या, किं रे अन्ध ! न पश्यसि ? । इत्युक्तं निजदासस्य, तेनान्धाऽभूदिहाप्यसौ ॥८२१।। भुक्ते कर्मविपाकेऽस्मिन् , गुणोऽभूदेतयोः स्त्रियोः । इत्यनालोचितं कर्म, भोक्तव्यं सर्वथा नृप ! ॥८२२॥ इत्थं पूर्वभवं राजा, श्रुत्वा ज्ञात्वा च कर्मणाम् । शुभाशुभफलं धर्मे, विशेषाद् उद्यतोऽभवत् ॥८२३।।
15
25