________________
२]
[धर्मकल्पद्रुमः तत्रागाद् धनदत्तोऽथ परोपकृतिकर्मठः । विशेषान्नृपवात्सल्यात् स्वामिकार्यैकतत्परः ॥७९८॥ साहसेन पलादस्य, निजाङ्गं तेन कल्पितम् । तदा तत्सत्त्वतुष्टेन, विमुक्तो राक्षसा नृपः ॥७९९।। स्वर्णद्वादशकोटीनां, धनदत्तगृहे सुरः । वृष्टिं कृत्वा गतः स्थाने, देवाः पुण्यवशाः किल ॥८००।। नृपेण धनदत्तोऽसौ, निजजीवितदायकः । सामात्येषु मन्त्रीशः, कृतो मुख्यो महामतिः ॥८०१।। षट्पञ्चाशत्कोटिनाथो, धनदत्तोऽभवत् क्रमात् । विवेकात् कुरुते धर्म, दृष्ट्वा धर्मफलं महत् ॥८०२।। अथैकदा वसन्तत्र्ती, राजा स्वान्तःपुरान्वितः । वसन्तखेलनायोच्चैर्महारङ्गाद् वने गतः ॥८०३।। क्रीडतस्तस्य मध्याह्ने, भुक्तिसामग्रिका कृता । इतश्चाययौ द्वादशयोजनारण्यतो मुनिः ॥८०४।। सार्थाद् भ्रष्टः क्षुधातृष्णामहातापैः प्रपीडितः । तत्राश्रित्य तरुच्छायां, स श्रान्तत्वादुपाविशत् ॥८०५।। तं मुनि प्रेक्ष्य राजा स, राजीवृन्दसमन्वितः । तत्रागत्य सुभावेन, ववन्दे विनयान्वितः ॥८०६।। प्रासुकान्नपयोदानैः, स्वस्थीचक्रेऽमुना मुनिः । धर्मं श्रुत्वा च तत्पार्वे, श्रावकत्वं समाश्रयत् ।।८०७।। एवं पुनर्नृपे तस्मिन् , वसन्तौ वने गते । सार्थभ्रष्टं साधुयुगं, तृषार्तं तत्र चागतम् ॥८०८॥ राज्ञा तन्दुलनीरेण, तयोः सम्पूर्य तुम्बकम् । दत्तं साधू च तत्पीत्वा, स्वस्थीभूतौ गतौ क्वचित् ॥८०९।। रत्नवीरनृपः सोऽथाराध्य धर्मं जिनोदितम् । मृत्वा चायु:क्षये जातो, रत्नपालो नृपो भवान् ॥८१०।।
25