________________
पञ्चमः पल्लवः]
[२२७ वारयितुं विवदन्तौ, तौ केनापि न शक्यते । न भग्नोऽसौ यदा वादस्तदा वेश्याऽब्रवीदिदम् ॥७८५।। अमुं भनक्ति यो वाद, तस्मै कनककोटिकम् । दास्यामि नान्यथा वाग् मे, या प्रोक्ता लोकसाक्षिकम् ॥७८६।। तच्छ्रुत्वा धनदत्तोऽथ, विवेकोत्पन्नबुद्धितः । कोटिद्वादशमूल्यानि, रत्नानि धृतवान् करे ॥७८७।। वामे भुजे दर्पणश्च, धृत्वा तं धूर्तमब्रवीत् । मणीन् गृहाण भद्रतान् , दर्पणे प्रतिबिम्बितान् ॥७८८॥ धूर्तो जगाद रे धूर्त !, किमिदं दीयते मम । प्रतिबिम्बानि रत्नानां, ग्रहीतुं को नरः क्षम: ? ॥७८९॥ धनदत्तोऽवदत् किं भो, जनोक्तिरिति न श्रुता ? । यादृशी भावना चित्ते, सिद्धिर्भवति तादृशी ॥७९०॥ प्रासादसदृशो देवो, देवतुल्या च पात्रिका । यादृक् स्वर्णं त्वया न्यस्तं, तादृशं शर्ण्यते मया ॥७९१॥ स्वप्ने न्यस्तं याचसे त्वं, दीयते प्रतिबिम्बितम् । कश्चिद्दोषो हि नास्त्यत्र, धूर्ते धूर्तत्वमाचरेत् ॥७९२॥ विलक्षीभूय धूर्तोऽसौ, धिक्कृतः कुत्रचिद् गतः । वेश्यातः स्वर्णकोटिञ्च, नीत्वा दानं धनो ददौ ॥७९३।। अन्येद्युः नगरे कश्चिद् दुष्टो राक्षस आगतः । अकस्मात् नृपति हृत्वा, गत्वा च व्योमनि स्थितः ॥७९४।। मृततुल्यं नृपं दृष्ट्वा, विलक्षा व्यलपन् प्रजाः । शान्तिकं पौष्टिकं भोगान् , बलिं चक्रुश्च मन्त्रिणः ॥७९५॥ ततः प्रत्यक्षतां प्राप्तो, राक्षस: स्माह भो जनाः ! । यदि मे कोऽपि सत्त्वेन, दत्ते स्वाङ्गबलि नरः ॥७९६।। तस्य मांसेन तृप्तोऽहं, नृपं मुञ्चामि नान्यथा । श्रुत्वैवं ते जनास्तस्थुरधोवक्त्रा असाध्यतः ॥७९७।। युग्मम् ॥
15
20