________________
[धर्मकल्पद्रुमः धनदत्तस्य सद्बुद्धि, वीक्ष्य राजा चमत्कृतः । दत्त्वा पञ्चापि रत्नानि, प्रेषितोऽसौ निजे गृहे ॥७७२।। अथान्येयुः पुनः कोऽपि, सार्थेन सह सार्थपः । स्वामी द्वादशकोटीनां, धूर्तत्वेनागतः पुरे ॥७७३।। सुरूपो यौवनावस्थः, स्फारशृङ्गारशोभितः । गणिकाऽनङ्गलेखाया, मन्दिरे तत्र सोऽगमत् ।।७७४।। महेभ्य इति तं ज्ञात्वा, वेश्या सन्मानपूर्वकम् । चित्ते कपटमाधाय, माययैवं तदाऽब्रवीत् ॥७७५॥ अहो ममाद्य सद्भाग्यं, जजागार पुरातनम् । यतो जङ्गमकल्पद्रुः, प्राप्तोऽयं मम मन्दिरे ॥७७६।। अद्य स्वप्ने मया स्वामिन् !, स्वर्णद्वादशकोटयः । त्वत्तः प्राप्ता अभूत् सत्यं, तत्प्रत्यक्षं तवागमे ॥७७७।। धूर्तो धूर्त्तवचः श्रुत्वा, हसित्वोवाच तादृशम् । भद्रे ! सत्यं त्वया प्रोक्तं, परं मे वचनं शृणु ॥७७८॥ स्वप्नमध्ये मयाप्यद्य, हेमाष्टादशकोटयः । न्यासार्थं त्वद्गृहे मुक्तास्तदर्थेऽहमिहागतः ॥७७९।। मयाऽष्टादश वर्षाणि, स्थातव्यं त्वद्गृहे मुदा । परमेकामिमां वार्ता, मदीयां शृणु सुन्दरि ! ॥७८०।। साम्प्रतं सबलं सार्थं, कृत्वा देशान्तरं प्रति । व्यवसायार्थलाभार्थं, गमिष्याम्यहमेकदा ॥७८१।। ततोऽष्टादशकोटीनां, मध्यात् द्वादशकोटयः । मम स्थापनिका देया, यामि देशान्तरं यथा ॥७८२।। तत्रोपाय॑ महाद्रव्यं, वलित्वा त्वरितं पुनः । आगत्य त्वद्गृहे भद्रेऽहं स्थास्यामि महासुखम् ॥७८३।। किं याचसे वृथा धूर्तेत्युक्त्वा किञ्चिद् ददौ न सा । ततो धृत्वा स्वहस्ते सा, नीता तेन चतुष्पथे ॥७८४।।
25