________________
पञ्चमः पल्लवः ]
स प्रोचेऽभिग्रहः स्वामिन् !, गुरुदत्तोऽस्त्ययं मम । अदत्तचौर्यवरतूनि, न ग्राह्याणि कदाऽपि यत् ॥७५९।। व्यसनेषु न सक्तोऽहं, परनारीपराङ्मुखः । इति निर्लोभतां प्रेक्ष्य, तद्गुणै रञ्जितो नृपः ॥७६०|| अतः सन्मान्य भूपेन, दत्त्वा श्रेष्ठपदं पुरे । सुखासने निवेश्यासौ, प्रेषितो निजवेश्मनि ॥ ७६१ ॥ एवं दिने दिने तस्य, बभूवुर्बहुसम्पदः । विवेकात्तन्न कुर्यात् स, येन कुप्यति भूपतिः ॥७६२॥ एकदा तत्पुरे राजसभायां कोऽपि धूर्त्तराट् । कोटिमूल्यानि रत्नानि, करे कृत्वा समागतः ॥७६३॥ स प्रोचेऽमूनि रत्नानि, पञ्च तस्मै ददाम्यहम् । समुद्रस्य पयः पङ्कं, सङ्ख्याय कथयेन्मम ॥७६४|| मच्चित्ते संशयोऽप्यस्ति, मध्ये कर्दमनीरयोः । किं न्यूनमधिकं किं वा, यो दक्षः स वदत्विदम् ॥७६५॥ तदा तस्य न केनाऽपि, भग्नोऽयं वक्रसंशयः । तच्छ्रुत्वा धनदत्तस्योत्पन्ना बुद्धिः सुरीवरात् ॥७६६॥ तत्रागत्य विवेकी सोऽवादीद्वादिनरं प्रति । हंहो भद्र ! पङ्कः, स्वल्पं नीरञ्च विद्यते ॥७६७॥ यदि ते संशयस्तर्हि, गङ्गादितटिनीजलम् । पृथक् कृत्वा समुद्राच्च, नीरपङ्कौ पृथक् कुरु ॥७६८|| तुलामादाय दक्ष ! त्वं, ततस्तोलय तद्वयम् । तुलिते ज्ञास्यते सर्व्वं वचो मन्यस्व मेऽथवा ॥७६९|| ज्ञातं प्राक् तेन मत्पृष्टं, चेन्न कः कथयिष्यति । रमिष्येऽहं तदा धूर्त्तकलया नगरेऽखिले ॥ ७७० ॥ असाध्यं वचनं तेन, मानितं हारितं पुनः । गृहीत्वा पञ्च रत्नानि, राज्ञा निष्कासितः पुरात् ॥७७१॥
[ २२५
5
10
15
20
25