________________
5
10
15
20
25
४]
[ धर्मकल्पद्रुमः
श्रुत्वैवं वणिजाऽचिन्ति, बहुमूल्यान्यमून्यसौ । मूर्खो दत्तेऽल्पमूल्येन, ग्रहीतुं मे न युज्यते ॥ ७४६॥ अयं विभाव्यते चौरो, हृतान्येतानि कस्यचित् । बहुलाभेऽप्यलाभोऽयं, विचिन्त्येति स नाग्रहीत् ॥७४७৷৷ चौरेण सिद्धदत्तस्य दर्शितान्यथ तानि तु । तेन लोभाभिभूतेन, गृहीतान्यल्पमूल्यतः ॥ ७४८।। आरक्षकनरैश्चौरः, स ज्ञातः पापयोगतः । यष्टिमुष्ट्यादिभिर्हत्वा, तैश्चानीतो नृपाग्रतः ॥७४९॥ नृपोऽपृच्छदरे क्वास्ति, तद्वस्तु यत्त्वया हृतम् । नामन्यत यदा चौर्यं, तदाऽसौ ताडितोऽधिकम् ॥७५०॥ ततस्तेन निजस्थानाद्, वस्तून्यानाय्य वेगतः । अप्पितानि समस्तानि, पुनः पप्रच्छ भूपतिः ॥७५१॥ बहुकालात् पुरा यानि रत्नानि मम कोशतः । त्वया हतानि तानि क्व, सन्ति चानीय मेऽपय ॥७५२ ॥ तेनोक्तं धनदत्ताय, प्राग् दत्ता मणयो मया । न गृहीताः परं तेन, सिद्धदत्तोऽऽग्रहीच्च तान् ॥७५३॥ आकार्य सिद्धदत्तं तं राज्ञा कारागृहे रुषा । क्षिप्त्वा नीत्वा च सर्वस्वं मुक्तश्चौरयुतोऽथ सः ॥७५४॥ निर्धनत्वं ततः प्राप्तो, महाखेदं वहन् हृदि । गृहवासाच्च निर्विण्णः, सिद्धदत्तो व्यचिन्तयत् ॥७५५॥ पूर्वं मे लघुता लोकेऽधुना जाता विशेषतः । निर्धनत्वे च गार्हस्थ्यमसारं तुषवद् भृशम् ॥७५६॥ इति ध्यात्वा स निस्सृत्य, गृहाद् गत्वा च कानने । भिक्षाहारी जटाधारी, तापसोऽभूद्विरागवान् ॥७५७।। इतश्च धनदत्तः स, पृष्ट आकार्य भूभुजा । अमून्यमूल्यरत्नानि, न क्रीतानि कथं त्वया ? ॥७५८॥