________________
[२२३
पञ्चमः पल्लवः]
सिद्धदत्तस्तु तत्पृष्ठे, लग्नो गच्छन् विनोदतः । ताभ्यां साक्षीकृतो वादे, स चानीतो नृपान्तिके ॥७३३॥ राज्ञा पृष्टः स पुत्राभ्यां, त्वं हि साक्षीकृतोऽसि रे । वद भो न्यायमन्यायमेतयोरथ सोऽब्रवीत् ॥७३४।। स्वामिस्ते वृद्धपुत्रोऽयमुत्कटो वर्त्तते महान् । लघुस्तु बालभावत्वाद् , यद्वा तद्वा वदेद् वृथा ॥७३५।। अविवेकेन तेनेदं, प्रोक्तं राजसभान्तरे । तच्छलं प्राप्य राज्ञाऽस्य, नीता विंशतिकोटयः ॥७३६।। द्वेषतस्तस्य केनापि, पक्षपातोऽपि नो कृतः । धनदत्तः सुखी जातः, प्रस्तावज्ञो विवेकवान् ॥७३७।। एकदा तावुभौ मन्त्रिसौधस्याधस्तु जग्मतुः । गवाक्षस्थितया दृष्टौ, मन्त्रिपत्न्या रतिश्रिया ॥७३८।। रूपवन्तौ युवानौ च, तौ दृष्ट्वा मृगलोचना । सरागत्वेन वीक्षन्ती, सा धनेनोपलक्षिता ॥७३९॥ तदाक्र्कबिम्बवत्सर्पवच्च कुत्सितवस्तुवत् । शत्रुवद्धनदत्तेन, सा पुनर्नैव वीक्षिता ॥७४०।। ततो जितेन्द्रियत्वात् स, कुलमालिन्यभीतितः । व्रतभङ्गाद्विवेकाच्चागच्छदाकृष्य चक्षुषी ॥७४१।। सिद्धदत्तो निर्विवेकी, तामसती पुनः पुनः । आलोकयत्सरागत्वाद् व्रजन वालितकन्धरः ॥७४२।। तत्प्रेक्ष्यारक्षकनरैधृत्वा दत्तो नृपस्य सः । तमन्यायकरं कृत्वा, गृहीता दश कोटयः ॥७४३॥ तस्मिन् पुरेऽन्यदा कश्चिदागाच्चौरस्तदन्तिके । सपादकोटिमूल्यानि, दश रत्नानि सन्ति च ॥७४४।। एकान्ते धनदत्तस्य, दर्शयित्वाऽथ तानि सः । प्रोचे द्रम्मसहस्रेण, तवैकैकं ददामि भोः ! ॥७४५।।