________________
[धर्मकल्पद्रुमः स्वल्पाहारं स जग्राह, तथाप्यासीदजीर्णता । अल्पोच्चात् पतितस्यास्य, देहपीडा घनाऽभवत् ॥७२०।। स्वल्पक्रयाणके क्रीते, हानिर्जाता च विक्रये । एका च्छागी बहिर्मुक्ता, भक्षिता सा वृकेण च ॥७२१॥ एवं दिने दिने चापि, कृते तेन परीक्षणम् । विपरीतेऽथ सञ्जाते, दिना ज्ञाताश्च मध्यमाः ॥७२२।। स्वदिनं मध्यमं ज्ञात्वा, स्वस्थीभूतः कियद्दिनान् । व्यवसायं न चक्रे स, चक्रे धर्मं विशेषतः ॥७२३॥ कियत्यथ गते काले, धनदत्तेन धीमता । प्राग्वद्दिनपरीक्षार्थमेका क्रीता त्वजाऽन्यदा ॥७२४।। प्रसूता तद्दिने युग्मं, ततोऽभूत् त्रिकमेकतः । तद्दिनात् यत् स जग्राह, तत्सर्वं त्रिगुणं ह्यभूत् ॥७२५॥ इत्थं शुभदिनं ज्ञात्वा, धनदत्तो विवेकतः । ततो वाणिज्यमारेभे, सुमुहूर्ते स्वशक्तितः ॥७२६।। तदा देशान्तरायातसार्थतः प्रथमे दिने । पञ्चकोटिसुवर्णेन, क्रीतं सर्वं क्रयाणकम् ॥७२७।। तत्राथ सप्तमदिने वणिक् कोऽप्यन्यमन्दिरात् । आगतस्तेन तद्वस्तु , नीतं द्विगुणमूल्यतः ॥७२८॥ इत्थं दिने दिने तस्य, वृद्धिर्वाणिज्यतोऽभवत् । स्वल्पैरेव दिनैः पूर्णा, अस्याष्टादश कोटयः ।।७२९।। एवं विवेकतो जातो, धनदत्तो महाधनी । महादानेन लोके च, कल्पशाखीव विश्रुतः ॥७३०॥ अन्यदा सिद्धदत्तः स, धनदत्तेन संयुतः । व्रजन् राजपथेऽपश्यत् , कलिं भूपतिपुत्रयोः ॥७३१।। नृपपुत्रौ वृद्धलघू , विवदन्तौ परस्परम् । विलोक्य धनदत्तोऽगादन्यमार्गे विवेकतः ॥७३२।।