________________
[२२१
पञ्चमः पल्लवः]
तैः सर्वैरपि सम्भूय, धनदत्तस्य भाषितम् । त्वं मुञ्चाग्नि स मेने तज्जना दूरेऽथ ते स्थिताः ॥७०७।। धनोऽथ वह्निदानाय, शबवस्त्रमपाकरोत् । वस्त्रे ग्रन्थि तदा दृष्ट्वा, छोटयित्वा व्यलोकयत् ॥७०८।। दृष्टानि पञ्च रत्नानि, बहुमूल्यानि तान्यथ । विवेकात् परकीयानि, नादत्तान्यग्रहीदसौ ॥७०९।। महाजनस्य तेनापि, गृहीत्वा दर्शितानि च । तस्य निर्लोभतां ज्ञात्वा, ते सर्वेऽपि चमत्कृताः ॥७१०।। ते सर्वे वणिजस्तुष्टास्तं प्रत्येवं बभाषिरे । अस्माभिस्तव दत्तानि, रत्नानि त्वं गृहाण भोः ! ॥७११।। श्रुत्वैवं धनदत्तोऽपि, प्रत्युत्तरमुवाच सः । अनाथं यद्भवेद् द्रव्यं, तस्य स्वामी नृपो भवेत् ॥७१२।। भेयुर्गोत्रिणः केऽपि, वैदेशिकनरस्य वा । तेषां हि रत्नसम्बन्धो, नाहं गृह्णाम्यमूनि तत् ॥७१३॥ तेन वस्त्रे ततो बद्ध्वा, तानि मुक्तानि भूपरि । कृत्वाऽथ शबसंस्कारं, स्वस्वगेहे जना गताः ॥७१४॥ धनदत्तोऽपि रत्नानि, गृहीत्वाऽऽगत्य च द्रुतम् । उक्त्वा सर्वं च सम्बन्धं, भूपतेस्तान्यढौकयत ॥७१५।। राजा जगाद हे भद्र ! त्वया शुश्रूषितो नरः । तद्रत्नानि गृहाण त्वं, यद्वा लब्धानि भाग्यतः ॥७१६।। अत्याग्रहेण भूपेन, प्रदत्तं रत्नपञ्चकम् । तेन नीत्वा च विक्रीय, कृताः षट्कोटिटङ्ककाः ॥७१७।। धनदत्तेन तद्रव्यैर्व्यवसायं चिकीर्षणा । प्राक् स्वपुण्यमपुण्यं वा, विलोकयितुमीप्सितम् ॥७१८॥ स्वकीया दिवसा रम्या, अरम्याः सन्ति वाऽधुना । स्वल्पस्वल्पेन कार्येण, परीक्षामिति स व्यधात् ॥७१९॥
15