________________
स]
[धर्मकल्पद्रुमः कदर्यभावतस्तस्मिन् , द्वेषी जातो जनोऽखिलः । महाजने धनान्धेति, ख्यातिरेतस्य विस्तृता ॥६९५।। स्वगर्ववशतो मढो. जानाति स्म न किञ्चन । पशुवन्निविवेकी स, केवलं धनमाजयत् ॥६९६।। तदाऽन्यो धनदत्तोऽपि, देवीवरमवाप्य तम् ।
तस्य प्रभावतः सम्यक्, सञ्जातः सुविवेकवान् ॥६९७।। यतः- भक्त्या देवगुरून् सदा नमति यो दानं च दत्ते मुदा,
नो हिंसां कुरुते न जल्पति मृषा गृह्णात्यदत्तं न च । अन्यस्त्रीमपवर्जयेद्वहति नो गर्वं न निन्देत् परं, शुद्धात्मा धनदत्त एष विनयी दक्षोऽल्पलोभः क्षमी ॥६९८॥ विवेकी धनदत्तोऽसौ, मिलिते श्रीमहाजने । आकार्यते वचस्तस्य, हितं सर्वोऽपि मन्यते ॥६९९।। अन्यदा तत्पुरे कश्चिदागाद्वैदेशिको वणिक् । रोगातः स मठे सुप्त सुप्तस्तस्य शुश्रूषको न कः ॥७००।। यस्मिन् ग्रामे पुरे वापि, नात्मीयः कोऽपि संवसेत् । क्षणं हि तत्र न स्थेयं, सुधीभिः शुभकाङ्क्षिभिः ॥७०१॥ अनाथं तं नरं वीक्ष्य, धनदत्तः स्वशक्तितः । चकार तस्य शुश्रूषां, कर्मतः स मृतः परम् ॥७०२॥ ततस्तद्देहसंस्कारकृते सम्मिलिते जने ।
आहूतः सिद्धदत्तः स, नागतो मदभारितः ॥७०३।। ततो वैदेशिकं मर्त्य, मृतमुत्पाट्य वेगतः । श्मशाने वणिजो जग्मुस्तैस्तत्र रचिता चिता ॥७०४।। परमज्ञातगोत्रत्वाद् , दत्तेऽग्नि तस्य कोऽपि न । स्पर्धया वह्निदाने ते, विवदन्ते परस्परम् ॥७०५॥ स्वभावोऽयं हि लोकानां, येह साधारिणी क्रिया । तां गाम्भीर्यगुणं धृत्वा, स्वयमेकः करोति न ॥७०६॥
15
20
25