________________
पञ्चमः पल्लवः ]
उद्गता फलिता वल्ली, तृप्ता जाता नराः फलैः । फलास्वादनतोऽप्यग्रे, बभूवुः सुखिनो जनाः ||६८२॥ अन्येद्युरागता वार्द्धेस्तत्रैका जलमानुषी । वारिता सिद्धदत्तेन, खादन्ती पुषीफलम् ॥६८३॥ रत्नमेकं करे धृत्वा, तेन तस्याः प्रदर्शितम् । तदा साऽचिन्तयन्नूनमेष रत्नानि याचते ॥ ६८४ ॥ ध्यात्वेति वेगतः पश्चाद्, गता सा जलमानुषी । समुद्राद्रत्नमानीय, सिद्धदत्ताय चार्ष्ययत् ||६८५॥ यावन्मात्राणि रत्नानि, सिद्धदत्ताय सा ददौ । तावन्मात्रफलान्येष, तस्यै दत्ते स्म सर्वदा ||६८६|| बहुकालेन सिद्धेन, रत्नराशिः कृतो भृशम् । पोते क्षिप्त्वा स रत्नानि, क्रमादागात् पुरे निजे ||६८७||
यतः
इतश्च रत्नलोभेन, रत्नवीरेण भूभुजा । निजाज्ञा दापिता यानपात्रे द्वादश वासरान् ॥६८८||
न्यायं धृत्वा स्वयं चित्ते, त्रयोदशदिने नृपः । शुल्कं नीत्वाऽमुचत् पोतं, सिद्धदत्तो जहर्ष च ॥६८९॥ षट्षष्टेर्हेमकोटीनां, स्वामी जातः सुरीवरात् । परं स निर्विवेकत्वात्, कस्य किञ्चिन्न मन्यते ॥ ६९०|| कुवंशपतितो राजा, मूर्खपुत्रो हि पण्डितः । निर्धनेन धनं प्राप्तं, तृणवत् मन्यते जगत् ॥६९१॥ यतः - श्रुतवाग् - दृष्टिहरणं करोति लक्ष्मीर्नरस्य को दोष: ? । गरलसहोदरजाता, आश्चर्यं यन्न मारयति ॥ ६९२॥ मेलापके न मिलति, नोपकारं करोति च । श्रीमत्स्वजनमध्येऽपि, नाऽऽयाति स्वमदेन सः ॥६९३॥ न देवे न गुरौ चापि, न धर्मे न कुटुम्बके । व्ययति स्म निव्विवेकात्, काणामपि कपर्दिकाम् ॥६९४||
[ २१९
5
10
111
15
20
25