________________
[धर्मकल्पद्रुमः तुष्टेन तेन त्रपुषीफलानि कति योगिना । दत्तानि सिद्धदत्ताय, मन्त्रितानि सुमन्त्रतः ॥६६९॥ उक्तं चैतानि व(उ)प्तानि, प्ररोहन्ति घटीद्वये । तद्वल्ली यत्नयोगेन, मण्डपेऽथ चटाप्यते ॥६७०।। ततः पुष्पफलान्यस्याः, सुधारससमानि वै । भक्षितानि क्षुधां तृष्णां, सर्वपीडां हरन्त्यहो ! ॥६७१।। वाताश्चतुरशीतिः षट्सप्ततिर्नेत्रजा रुजाः । अष्टादशापि कुष्ठानि, सन्निपातास्त्रयोदश ॥६७२॥ शाम्यन्ति फलमाहात्म्याद्विषे स्थावरजङ्गमे । इत्युदीर्य गतो योगी, सिद्धदत्तो व्यचिन्तयत् ॥६७३।। युग्मम् ॥ अहो ! मयाऽद्य लब्धानि, फलान्येतानि भाग्यतः । उप्तं च विधिना तेन, फलं तत्फलितं क्षणात् ॥६७४॥ हर्षेण सिद्धदत्तेन, शब्दोऽथो पातितः पुरे । अहो ! ये व्याधिता लोकाः, सर्वेऽप्यायन्तु मद्गृहे ॥६७५।। द्रव्यं शतसहस्रादि, यथायोगं स लोभतः । पूर्वमादाय दत्तेऽथ, फलान्येतानि रोगिणाम् ॥६७६।। फलेषु सेव्यमानेषु , नीरोगा अभवन् जनाः । सिद्धदत्तोऽपि तद्दव्यैरजायत महर्द्धिकः ॥६७७।। अन्यदा सिद्धदत्तोऽसौ, धनलोभे प्रवर्धिते । परद्वीपं गतो वाौं, पोतं सम्पूर्य वस्तुभिः ॥६७८॥ तत्स्थानाद्वलिते तस्मिन् , यानपात्रं कुवायुना । प्रेरितं चाब्धिकल्लोलैः, पताकावन्ननत तत् ॥६७९।। तदा क्रयाणकान्यब्धौ, लोकैः क्षिप्तानि भूरिशः । लघुत्वेन ततः पोतः, शून्यद्वीपे ययौ रयात् ॥६८०।। पोतादुत्तीर्य लोकास्ते, तस्मिन्द्वीपे स्थितास्तटे । त्रपुषी सिद्धदत्तेन, उप्ता धान्यक्षये सति ॥६८१।।