________________
पञ्चमः पल्लव:]
[२१७
कथं मे बलिनो राज्यं, गृहीतं जयमन्त्रिणा ? । कर्थिता जयेनैव, कथं शृङ्गारसुन्दरी ? ॥६५६॥ कर्मणा केन राज्यं तद् , गतं लब्धं पुनर्मया । सर्वकार्यकरो लब्धो, दुर्लभोऽपि कथं रसः ? ॥६५७।। पीडिता कुष्ठरोगेण, कथं कनकमञ्जरी ? । केन कर्मविपाकेन, जातान्धा गुणमञ्जरी ? ॥६५८।। कथं तयोर्द्वयोर्देव !, गुणो जातोऽल्पयोगतः । एवं पुरातनं कर्म, सर्वेषां ब्रूहि केवलिन् ! ॥६५९॥ केवली स्माह हे राजन्नत्रैव भरताभिधे । क्षेत्रे रत्नपुरे पूर्वां, रत्नवीरो नृपोऽभवत् ॥६६०॥ श्रीदेवीप्रमुखास्तस्य, नव राज्योऽभवन् वराः । तत्पुरे वणिजौ सिद्ध-धनदत्ताभिधावुभौ ॥६६१।। अदत्तयोगतस्तौ द्वौ, जातौ दारिद्यपीडितौ । श्रूयते जनगीरेवं, नादत्तमुपतिष्ठति ॥६६२।। ताभ्यां प्रोक्तं मिथोऽन्येधुर्धनार्थे कश्चिदुद्यमः । क्रियते येन सद्भाग्याभाग्ययोर्लभ्यतेऽन्तरम् ॥६६३॥ काचिद्देवी ततस्ताभ्यामाराद्धा शुभभावतः । विंशत्याऽथोपवासैः सा, प्रत्यक्षा देवताऽभवत् ॥६६४।। प्रोचे सैवमहो वत्सौ !, द्वयोर्लक्ष्मीविवेकयोः । मध्ये याच्यं विमृश्यैकं, द्वयं नैव प्रदीयते ॥६६५।। सिद्धदत्तोऽथ लक्ष्मी, च, विवेकं धनदत्तकः । ययाचे तद्वरं दत्त्वा, तयोर्देवी तिरोदधे ॥६६६।। अथैव सिद्धदत्तस्य, निर्विवेका रमाऽभवत् । विवेको धनदत्तस्य, भाजनं सर्वसम्पदाम् ॥६६७।। अन्यदा सिद्धदत्तस्य, कश्चित् कापालिको गृहे । आयातः सति मध्याह्ने, भक्त्या तेन स भोजितः ॥६६८।।