________________
5
10
151
20
25
[ धर्मकल्पद्रुमः
यतः- हसन्तो हेलया जीवाः, कर्म्मबन्धं प्रकुर्व्वते । तद्विपाको हि कायेषु, स्टद्भिरपि भुज्यते ॥ ६४३॥ इत्थं पूर्व्वभवं श्रुत्वा, फलं चाप्यल्पकर्म्मणः । जन्मेजयनृपो बुद्धो, वैराग्यं प्राप सप्रियः ||६४४॥ चन्द्रोदयसुतं राज्ये, निवेश्याथ स भूपतिः । प्रियायुग्मयुतो दीक्षां, जग्राह ज्ञानिनोऽन्तिके ॥ ६४५।। इतश्चामिततेजाः स, मृत्वाऽऽर्त्तध्यानतत्परः । वने क्वापि प्रचण्डोऽभूत्, षण्डस्तादृशकर्म्मतः ॥६४६॥ गतोऽन्यदा वने तत्र, जन्मेजयमुनीश्वरः । कायोत्सर्गे स्थितस्तत्र, कृत्वा सुस्थिरमानसम् ॥६४७॥ भ्रमंस्तत्रागतः षण्डो, दृष्ट्वा तं सुस्थितं मुनिम् । दधावे पूर्ववैरेण, शृङ्गघातैर्हतो मुनिः ॥६४८॥ पुनः पादैर्हन्यमान, आत्मानं स मुनीश्वरः । अध्यासयति शान्तात्मा, न चचाल मनागपि ॥६४९॥ उपसर्गान् सहन् जज्ञे, सोऽन्तकृत्केवली क्षणात् । पूरयित्वा तदा स्वायुर्जगाम परमं पदम् ॥६५०|| वृषः सिंहहतो मृत्वा, तत्पापान्नरके ययौ । पुनस्तिर्यङ्नारकश्चेत्यभ्रमत् सुचिरं भवे ॥६५१|| साध्वी तु रत्नमाला सा, जयमालासमन्विता । चिरं सम्पाल्य चारित्रं, स्वर्गलोकं गता ततः ॥ ६५२ ॥ अवतीर्य विदेहेऽथ, तीर्थङ्करकरेण ते । उभे अपि व्रतं प्राप्य, प्रापतुर्मोक्षमक्षयम् ॥६५३॥ सङ्कटेऽपि यथा शीलं, पालितं रत्नमालया । अन्यैरपि तथा पाल्यं, निर्मलं मोक्षकाङ्क्षिभिः ||६५४ || देशनान्ते गुरुं नत्वा, रत्नपालोऽवदत् प्रभो ! | यद् यत् कर्म्मस्वरूपं तु, पृच्छामि वद तत्तथा ॥ ६५५ ॥