________________
पञ्चमः पल्लवः ]
तत्प्रिया रुक्मिणीनाम्नी, मिथो द्वौ प्रीतिशालिनौ । शरत्कालेऽन्यदा शालिरक्षणार्थं च तौ गतौ ॥६३०॥ ताभ्यां केदारमध्येऽथ, हंसो हंसीयुतो वरः । क्रीडन्निजेच्छया दृष्टो, लालयन्नपि चार्भकान् ॥६३१|| गृहीत्वा राजहंसी सा, दत्ता भर्त्रा प्रियाकरे । विनोदात् कुङ्कुमैर्लिप्त्वा, तया मुक्ताऽथ पक्षिणी ॥६३२॥ रक्तवर्णां ततो हंसीं, हंसो नैवोपलक्षयेत् (क्ष्य ताम्) । दृष्ट्वा दृष्ट्वा पुनर्याति, पुनरायाति मोहतः ॥६३३॥ न रमेत स्पृशेनैव, हंसो हंसीं मनागपि । भ्रामं भ्रामं ततः पक्षी, महाखेदमवाप सः ॥६३४||
ईदृशो द्वादशघटीमानोऽभूद्विरहस्तयोः ।
एवं दृष्ट्वाऽथ रुक्मिण्या, मुक्ता प्रक्षाल्य पक्षिणी ॥६३५॥ तदोपलक्ष्य हंसोऽसौ, प्रियाया मिलितो मुदा । एवं ताभ्यामन्तरायकर्म्माशुभमुपार्जितम् ॥६३६॥ भद्रजीवोऽथ दानादिपुण्याज्जातो भवान्नृपः । रुक्मिणी शीलधर्मेण, सञ्जाता रत्नमालिका ||६३७|| हंसजीवो भवं भ्रान्त्वाऽमिततेजा बभूव सः । हंसी सा वनदेवी च, सञ्जाता शुभकर्म्मतः ||६३८|| अश्वाकृष्टो यदा सुप्तो, वने त्वं पर्वमत्सरात् । जटीबन्धात् कृतः श्यामो, वनदेव्या तया तदा ॥६३९॥ वारं वारं हृता राज्ञी, यत्तेनामिततेजसा । सन्तापितः पूर्वभवे, हंसस्तत्कर्मजं फलम् ||६४०॥ प्राग्द्वादशघटीमानो, वियोगः पक्षिणोः कृतः । भुक्तं द्वादशवर्षेषु, युवाभ्यां विरहासुखम् ॥ ६४१॥ पुरातनं हि यत्कर्म्म, शुभं वाप्यशुभं भवेत् । जन्मकोट्यां गतायां तद्भोक्तव्यं नान्यथा भवेत् ॥६४२ ॥
[ २१५
5
10
15
20
25