________________
5
10
151
20
25
४]
मित्रखेचरसान्निध्याद्राज्ञीशीलप्रभावतः । षण्मासैर्भूभुजा जिग्ये, दिव्यास्त्रैः शत्रुखेचरः ||६१७॥
[ धर्मकल्पद्रुमः
रत्नमालां गृहीत्वाऽथ, मित्रेण सह भूपतिः । आदाय जयमालां च स प्राप नगरं निजम् ॥६१८॥ सहर्षाः सचिवाः सर्व्वे, स्वजनाश्च प्रजा अपि । आगताः सम्मुखा राज्ञो, मिलिता नतिपूर्व्वकम् ॥६१९॥ पृच्छन्ति स्म प्रजाः स्वामिन् !, किं तेऽभूदिन्द्रजालवत् । हयाकृष्टादिसम्बन्धो, नृपेणोक्तो निजस्ततः ॥६२०॥ राज्ञा पृष्टः पुनर्मन्त्री, मां विना राज्यरक्षणम् । कथं कृतं ततो मन्त्री, प्रोवाच शृणु भूपते ! ||६२१॥ नैमित्तिको मया पृष्टः, तेनेदं कथितं वचः । वर्षेर्द्वादशभिः पूर्णैरायास्यति तव प्रभुः ||६२२॥ त्वत्पदेऽथ मया यक्षः, स्थापितः प्रतिमामयः । पूर्व्वभक्तिवशात् स्वामिंस्तवाज्ञा न च खण्डिता ॥६२३|| महोत्सवेन भूपालः, प्रविवेश पुरान्तरे । खेचरं वालयित्वाथ, राज्यभारं बभार च ॥६२४|| क्रमेण रत्नमालायां, सुतश्चन्द्रोदयाभिधः । अभवत् पुण्ययोगेन, ववृधे स च लीलया ॥ ६२५॥ अथान्येद्युः पुरोद्याने, ज्ञानी सूरिः समागतः । वन्दनाय गतो राजा, तत्रान्तःपुरसंयुतः ॥६२६॥ तिस्रः प्रदक्षिणा दत्त्वा, गुरुं नत्वोपविश्य च । श्रुत्वा सद्देशनां प्रान्ते, भूपोऽवादीत् कृताञ्जलिः ॥६२७॥ गुरो ! मे कर्म्मणा केन, दुःखं द्वादशवार्षिकम् । पुनः पुनर्वियोगश्च, संप्राप्तो रत्नमालया ? ||६२८।। सूरिः प्रोवाच भो भूप !, शालिग्रामे पुराऽभवत् । अनेकगोकुलस्वामी, भद्रनामा कृषीबलः ॥ ६२९॥