________________
[२१३
पञ्चमः पल्लवः]
वैताढ्येऽस्त्युत्तरश्रेण्यां, रत्नचूडो धराधिपः । तभ्राता मणिचूडोऽहं, सदा स्नेहभरान्वितः ॥६०४॥ कर्मयोगेन मदभ्रातर्जातो दाहज्वरो महान् ।। एतत्स्नात्रजलेनाशु , यान्ति रोगा ज्वरादयः ॥६०५।। जलायागच्छता मार्गे, जन्मेजयनृपप्रिया । मया दृष्टा खेचरेणापहृताऽमिततेजसा ॥६०६।। सा सती वचनं तस्य, भोगार्थं नैव मन्यते । कामान्धो बहुधा सोऽपि, विडम्बयति तां ततः ॥६०७।। मयाऽनेकप्रकारेण, बोधितोऽपि न बुध्यते । स नो मुञ्चति दुष्टात्मा, तां राज्ञी शीलशालिनीम् ॥६०८।। रुदन्त्याः पथि गच्छन्त्यास्तस्या वस्त्रं पपात च । तद्गृहीत्वाऽधुनाऽत्राहमागतो हे नरोत्तम ! ॥६०९।। ततो नृपेण वृत्तं स्वं, खेचराय निवेदितम् । जन्मेजयनृपं ज्ञात्वा, तस्मै वस्त्रं तदपितम् ॥६१०।। पुनः प्रोचे नृपो मित्र !, दृश्यसे त्वं नरोत्तमः । साहाय्यं कुरु मे राज्ञीप्रत्यानयनहेतवे ॥६११॥ प्रतिपद्य वचो राज्ञः, खेचरो भूपसंयुतः ।
वैताढ्याद्रौ गतः शीघ्रं, दूतत्वे प्रेषितो नरः ॥६१२।। विज्ञप्तोऽमिततेजाः स, गत्वा दूतेन हे प्रभो ! । जन्मेजयप्रियां मुञ्च, तद्विरोधान्न ते शुभम् ॥६१३।। श्रुत्वैवं कोपवान् सोऽपि, स्माह दूतं प्रति स्फुटम् । रे प्रत्यर्पयितुं तस्य, किमानीतास्ति सा मया ? ॥६१४।। वारं वारं हृताप्यद्य, चटिता साऽस्ति मत्करे । दूतेनाथ स्वरूपं तद् , गत्वा भूपस्य भाषितम् ॥६१५।। मेलितान्यथ सैन्यानि, खेचरयोर्द्वयोरपि । राम-रावणवज्जातं, तयोर्युद्ध जयार्थिनोः ॥६१६।।