________________
[धर्मकल्पद्रुमः स्वस्ववृत्तं यथाभूतं, ताभ्यामुक्तं परस्परम् । जयमालाऽथ भूपस्योद्वाहिता रत्नमालया ॥५९१।। रति-प्रीतिसमानाभ्यां ताभ्यां सार्धं स भमिपः । कन्दर्प इव सद्भोगान् , भुञ्जानोऽत्र स्थितः कियत् ॥५९२॥ चचाल सप्रियो भूपः, पश्चात् पूर्वदिशं प्रति । कस्मिन् केलिवने गत्वा, विशश्राम क्षुधातुरः ॥५९३।। स्त्रीयुग्मे शयिते राजा, फलार्थी कानने गतः । यावत् फलानि लात्वा स, आगतो नरनायकः ॥५९४॥ तावद् ददर्श नो सुप्तां, रत्नमालां निजप्रियाम् । प्रबुद्धा जयमालाऽथ, पृष्टा राज्ञा क्व ते स्वसा ? ॥५९५।। सोचे देव ! विजानामि, नाहं निद्रावशं गता । राजोचे हा कथं भार्यावियोगो मे पुनः पुनः ? ॥५९६।। मुक्त्वाऽथ कुत्र सुस्थाने, जयमालां महीपतिः । विरहातः स्वप्रियायै, स्वयं बभ्राम मेदिनीम् ॥५९७।। भ्रामं भ्रामं महीपीठे, वनेऽगान् मलयाभिधे । तन्मध्ये च महोत्तुङ्गं, ददर्श श्रीजिनालयम् ॥५९८।। तत् दृष्ट्वा तत्र सोत्साहश्चैत्यमध्ये नृपो गतः । तत्र भक्त्या युगादीशप्रतिमा तेन वन्दिता ॥५९९।। एतस्मिन् समये कोऽपि, व्योम्नो गरुडवाहनः । आगतः खेचरस्तत्र, ववन्दे च जिनेश्वरम् ॥६००। जिनस्नात्रं विधायाथ, स्नात्रनीरेण कुम्पकम् । भृत्वा च मण्डपे सोऽगात् , राजा नत्वा पप्रच्छ तम् ॥६०१॥ किमर्थं गृह्यते नीरं, कोऽसि त्वं कुत आगतः । युवत्या वसनं चैतत् , स्कन्धे ते वर्त्तते कथम् ? ॥६०२॥ जगाद खेचर: सोऽपि, शृणु साम्मिकोत्तम ! । ममैतां सकलां वार्ता, वदामि तव मूलतः ॥६०३।।
25