________________
[२११
पञ्चमः पल्लवः]
रौद्ररूप: सरक्ताक्षः, कन्थादण्डायुधावृतः । एकां नारी करे धृत्वा, योगी तत्र समागतः ॥५७८।। कपाली स करालाक्षो, निविष्टो वेदिकोपरि । अग्रे संस्थाप्य तां बालामिदं वचनमब्रवीत् ॥५७९॥ हे भद्रे ! तव भर्ता स, जलार्थं यावता गतः । तावत्त्वं निद्रया सुप्ता, कोमले पर्णसंस्तरे ॥५८०।। तदा विद्याधरेणैत्य, रागादमिततेजसा । त्वं हृताऽथ मया तस्य, सकाशान्मोचिता बलात् ॥५८१॥ अत्रानीता च हे सुभ्र !, यदि तस्य विडम्बनात् । निष्कासिता ततो भोगा, भुज्यन्तां मयका सह ॥५८२॥ न मन्यसे यदि त्वं मां, तर्हि त्वां मारयाम्यहम् । श्रुत्वैवं वनिता स्माह, शृणु रे पाप ! दुष्टधीः ॥५८३।। निश्चला मेरुचूलापि, कदा चलति भूतले । परं प्राणात्यये नैव, शीलमुल्लङ्घयाम्यहम् ।।५८४।। इत्थं महाग्रहं ज्ञात्वा, योगी खड्गमनतयत् । तदा तस्याः स्वयं श्रुत्वा, राज्ञा ज्ञाता निजप्रिया ॥५८५।। महाक्रोधस्ततो भूपो, गुहाया इव केसरी ।
निर्माल्यात् प्रकटीभूतः, प्रियापीडां सहेत कः ? ॥५८६।। यतः- सद्यो लक्ष्मीप्रियाधान्याऽपहारे सति मानवाः ।
भवन्ति दुःखिनोऽत्यन्तं, चित्ते नूनमनारतम् ॥५८७॥ रे पापिष्ठ ! किमारब्धमुत्तिष्ठ मम सम्मुखः । इत्युक्त्वा भूभुजा खड्गघातात् योगी द्विधाकृतः ॥५८८।। अन्यायकारिणो वृद्धि, यदि यान्ति महीतले । तदा लोकः कथं वेत्ति, ह्यन्तरं पुण्यपापयोः ? ॥५८९।। अथ सा जयमालापि, सहर्षाऽऽगत्य सत्वरम् । भगिनीं रत्नमालां तामालिङ्ग्य प्रणनाम च ॥५९०॥