________________
[धर्मकल्पद्रुमः कथमेकाकिनी भद्रे !, शून्यञ्च किमिदं पुरम् ? । तद् ब्रूहि श्रोतुमिच्छामि, साऽब्रवीत् शृणु सत्तम ! ॥५६५।। प्रसिद्धाऽस्ति महीपीठे, कोशाम्बीति पुरी वरा । तत्र कुशध्वजो राजा, पुष्पमालेति तत्प्रिया ॥५६६।। सूरवीरावुभौ पुत्रौ, तयोः सौभाग्यशालिनौ । पुत्री च रत्नमालैका, जयमाला तथाऽपरा ॥५६७।। वार्धके नृपतिर्दीक्षां, गृहीत्वाऽगात् शिवालयम् । राज्यार्थं भ्रातरौ तौ द्वान्योऽन्यं योद्धमुत्थितौ ॥५६८।। तं विरोधं परिज्ञाय, धात्र्याऽथ हेममालया । रत्नमाला सुता नीत्वा, विमुक्ता तापसाश्रमे ॥५६९।। पुत्रीवत्पालिता साऽथ, रत्नसिंहतपस्विना । अत्र रत्नपुरे चाहमानीता जयमालिका ॥५७०॥ चन्द्रकेतुनरेन्द्रस्य, मातुलस्य ममैव च । अर्पिताऽहं ततस्तेन, पुत्रीवत्परिपालिता ॥५७१॥ सखीभिः सह क्रीडन्ती, गवाक्षस्थाऽहमन्यदा । दृष्टा कपालिना केन, याचिता मातुलान्तिके ॥५७२।। नाऽपिताऽहं स दूमित्वा, राज्ञा निर्वासितः पुरात् । तेन विद्याबलेनाथ, चन्द्रकेतुर्हतः क्रुधा ॥५७३।। भस्मीकृत्य पुरञ्चापि, कृतं शून्यं दुरात्मना । अहं तु स्थापिताऽत्रैका, पूर्वलोभेन पापिना ॥५७४।। इत्युक्त्वा सा पुनः प्रोचे, शृणु साहसिकाग्रणीः । तस्यागमनवेलैषा, सञ्जाता त्वं व्रज क्वचित् ॥५७५॥ स निघृष्टो महादुष्टस्त्वां मुग्धं मारयिष्यति । अतः कारणतो याहि, 'जीवन् भद्राणि पश्यति' ॥५७६।। राजा तं योगिनं द्रष्टुं, स्थितो निर्माल्यमध्यगः । इतश्चाकाशमार्गे द्राग् , जातो डमरकध्वनिः ॥५७७।।