________________
[२०९
पञ्चमः पल्लवः]
तदाकाशात् पुष्पवृष्टिः, कृता देवैर्नृपोपरि । जन्मेजयनृपेणाहो, जितमेवञ्च भाषितम् ॥५५२॥ ततो विशेषतो रत्नमाला स्नेहं नृपोपरि । दधती मुदिता भोगान् , भुनक्ति स्म यदृच्छया ॥५५३।। अथान्यदा शरत्काले, राजा राज्ञीयुतो वने । गत्वा विविधक्रीडाभी, रमते स्म स्मरोपमः ॥५५४॥ इतश्च पूर्वरोषेण, तेन विद्याधरेण खे । उत्पाट्य कन्दरायां द्राक्, तौ मुक्तौ क्वापि दम्पती ॥५५५।। अचिन्तयत् तदा राजा, ममाहो कर्म दुस्तरम् । प्राक्तनं विद्यते येन, भवेद् दुःखं पुनः पुनः ॥५५६।। अत्रानीय विमुक्तोऽहं, सप्रियः केन वैरिणा ? । न ज्ञायते गतः क्वासौ, तहि किं कस्य कथ्यते ? ॥५५७।। तावत् तृषातुरा रत्नमाला ब्रूते स्म मे प्रभो ? । पाययानीय पानीयं, जन्तुस्तिष्ठेन्न तद्विना ॥५५८।। निर्गतौ कन्दरायास्तौ, सहकारतरोरधः । संस्थाप्य स्वप्रियां राजा, पानीयार्थं वनेऽभ्रमत् ॥५५९।। यावज्जलं गृहीत्वा स, आगतो नरनायकः । न ददर्श प्रियां तावत् , सा हृता तेन वैरिणा ॥५६०॥ विललाप ततो भूपो, मां मुक्त्वा क्व गता प्रिये ? । किङ्करोमि क्व गच्छामि, विरहं ते कथं सहे ? ॥५६१।।
शून्यचित्तो नृपोऽरण्ये, भ्रमन् भ्रमन् गतः क्वचित् । तत्र शून्यं पुरं दृष्टं, प्रतोलीदुर्गमण्डितम् ॥५६२।। गतो मध्ये नृपस्तत्र, पश्यन् दग्धगृहावलीम् । दृष्ट्वा क्वचिन्नृपावासांश्चटितश्चैकमन्दिरे ॥५६३।। अपश्यत्तत्र शय्याधिरूढामेकाञ्च बालिकाम् । क्षामोदरी सुरूपाञ्च, दृष्ट्वा तां नृपति गौ ॥५६४।।
__ 25