________________
सा
[धर्मकल्पद्रुमः ततः कुलपतिर्विद्यादेवीमाराध्य युक्तितः । कारयित्वा च सामग्री, विधिना सह भूभुजा ॥५४०॥ रत्नमालाभिधां कन्यां, विवाह्य करमोचने । अस्मै विद्यां ददौ प्रीत्या, युद्धे विजयकारिणीम् ॥५४१॥ युग्मम् । तं पूर्वस्नेहयोगेन, विरूपमपि रूपिणम् । मेन्यन्ती निजचित्ते सा, भर्तृभक्तिपराऽभवत् ॥५४२।। रम्यसौधे तयोः प्रीत्या, स्वेच्छया रममाणयोः । भर्तुः शीर्षावलोकार्थमुपविष्टाऽन्यदा प्रिया ॥५४३।। तदा सा मूलिका शीर्षात् , त्रुटित्वा पतिता भुवि । स्वीयरूपधरो राजा, बभूव सुभगस्ततः ॥५४४।। दिव्यरूपं पतिं वीक्ष्य, रत्नमाला मुदं दधौ । सख्या च प्रियवादिन्या, ज्ञापितस्तापसः पिता ॥५४५।। सोऽपि हृष्टो निजे चित्ते, मङ्गलध्वनिपूर्वकम् । महोत्सवं पुनश्चक्रे, तापसैश्च तदा मुदा ॥५४६।। तत्रान्यदागतः कश्चित् , खेचरः सैन्यसंयुतः । संवीक्ष्य रत्नमालां तां, हर्तुं लग्नाश्च तद्भटाः ॥५४७।। आश्रमान् पातयामासुस्तापसांश्च व्यडम्बयन् । तद्विलोक्य डुढौकेऽथ, योद्धं जन्मेजयो नृपः ॥५४८॥ तं प्रोढविक्रमं दृष्ट्वा, भग्नास्ते खेचरा भट्टाः । दिशोदिशं प्रनष्टाश्च, स्थितवान् मुख्यखेचरः ।।५४९।। उभाभ्यां युद्धमारेभे, दिव्यास्त्रेण परस्परम् । युद्ध्यमानेन राज्ञाऽथ, खेचरो हेलया जितः ॥५५०॥ न्यायधर्मे जयो ज्ञेयो, नान्यायेन जयो भवेत् । अदृष्टी( श्यी )भूय विद्याभृत् , स गतः क्वापि तत्क्षणात् ॥५५१॥
१. परस्मैपदं चिन्त्यम् ।